SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ द्वितीयो विधिविध्यरः। १०३ विकल्प्येत च भाव एव नाभावः, खपुष्पादिरसत्त्वादिति भावस्यैव घटपटादिना भवनं नास्य भेदः कश्चित्, तस्यापि तत्त्वादेव कुतोऽत्र विकल्पः। ननु भेदः प्रत्यक्षत एव पूर्वोत्तरायुत्पत्तिविनाशवस्तुप्रविभक्तत्वाद्गृह्यते अभेदश्च न गृह्यते।, अत्रोच्यते, अस्ति किश्चिद्भावव्यतिरेकेण पूर्वमुत्तरं वा? ततः किं तदपूर्वं यदुत्पद्यते पूर्व वा विनश्यतीति पूर्वोत्तरादिदिकालोत्पत्तिविनाशवस्तुप्रविभागाभावात् किं तत् प्रविभक्तं प्रविभज्यते प्रविभक्ष्यते वा? अतो नाभावो भेदो भवति। स एव ह्युत्पातायुदकाग्नित्ववत्तद्विरोधिधर्मापत्त्याऽन्यथा वर्तमानोऽन्यथापि वर्त्तत एव । भियमानं हि वस्त्वेवं भियते स्वरूपादविपर्ययगत्या, यद्यभावो भावो भवेत् स तु न भियेत कथञ्चित् । उपचितापचितभवनो वा स एव भावो न भिद्यत इति न काचिदवस्था दधिघटादिरादिनिधनविभागवती, क्षीरदध्याद्यवस्थास्वेकरूपत्वाद्भवनस्य। यदि स्यात् सा खपुष्पावस्थापि तत्त्रयधर्मा स्यात् सर्वतो व्यावृत्तत्वात् दधिघटवत् । महापृथिवीवियदवस्थे सादिनिधनविभागे स्याताम्, इतरेतरासत्त्वात्, घटवत्, घटोऽपि वाऽनायादिः अत एव, आकाशमहापृथिवीवदिति। ___ तद्हणमपि नैव भेदस्याभावादेव, अभावः कल्पनात्मकत्वात्, कल्पनात्मकथासन्, वस्तुनोऽन्यथात्वात्, सा च कल्पना
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy