SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०२ द्वादशारनयचक्रे ननु घटस्य भाव इति व्यतिरेकषष्ठया व्यपदिश्यमानत्वात् पटादिव्यतिरेकेण घट एव भवनस्य कर्तेति, न, भावस्यैव तथातथाभवनात्, स एव हि भावो घटपटादिर्भवति, हस्तादिभवनकारणयोः पुरुषभवनकारणवत्, न हि हस्तादौ भवति कुर्वति वा देवदत्तो न भवति न करोति वा, अतो भावत्वेऽभावत्वे वा नास्त्येव भेदो घटादेरिति। तच्च प्रत्यस्तमितनिरवशेषविशेषणं भवनं सर्ववस्तूनां मूलं स्फटिकवत् सर्वबिम्बप्रतिबिम्बसामान्यम्। तदेव हि भवनं व्रीह्यादि तदेव च मृदादि साध्यं साधनश्चैकं तथा अहेयं सदा तदवस्थमेव भवनात्, पुरुषस्य हस्त्यादियावद्भवनवत्, पुरुष एव हि हस्त्यादिम॒दादिश्च भवति तथा भवनमेव पृथिव्यम्बुमृदादिर्भवति, एकत्रैवोपयुक्तार्थत्वात् । घटादेर्भवनस्य भेदेऽसत्त्वमेव भावाद्भिन्नत्वात् खरविषाणवत्। भावाद्भिन्नोऽपि घटो भवत्येव चेत्तस्य भवने वन्ध्यापुत्रोऽपि भवेदघटत्वात्। आत्मनाऽभावात् पटवत्, घटवदेव वा तद्भावाद्भेदाभावाच्च भाव एव विकल्पोऽत्र न सत्यः। विकल्पो हि भेदसंसर्गपरिणामैर्भवेत्, न चास्य भेदः संसर्गः विपरिणामो वा एकतत्त्वात्मकत्वात् प्रतिस्वत्ववत् ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy