________________
द्वितीयो विधिविध्यरः।
१०१
स्वशब्दस्य नैवास्ति, अस्वस्याभूतत्वाद्वन्ध्यापुत्रवत्, न चाभूतो व्यावर्त्तनाय, अथ सोऽस्वस्तथा, ततः स भाव एव तस्य भावशब्दवाच्यार्थवत् किं व्यावृत्त्याऽनर्थिकया?
स्यान्मतं तस्याभावाद्वयावर्त्यता विशेषणार्थवत्ता चेत्येतच्चायुक्तम्, तस्य भावत्वप्रसङ्गात्, न ह्यसतः प्रसङ्गोऽस्ति, अप्रसक्तस्य व्यावर्त्यता वाऽस्ति, अब्राह्मणवचनेन ब्राह्मणत्ववत्, तस्माद्यदपि व्यावर्त्यते तदपि भवेदेव, व्यावय॑त्वादब्राह्मणवत् । वैधपेण असत्, असतोऽप्रसक्तत्वादप्रसक्तस्य चाव्यावर्त्यत्वात्, खपुष्पवत्, किञ्चित्वाद्वस्तुत्वादर्थत्वादेः, स्ववत् ।
अयश्च स्वभावः किं व्यापी प्रतिवस्तु परिसमाप्तो वा? तत्र व्यापित्वे त्यक्तस्वपरविशेषणः स्यादेकरूपत्वात्, प्रतिवस्तुत्वे किं तेन कल्पितेनाभिन्नफलेन लोकवादात्?
स्वभावाभाव एव च प्रसक्तः, तद्यथा - प्रत्येकमात्रवृत्तिघटायेव घटादीनि इतरेतराभावात्, परस्परमस्वभवनपरिग्रहात् कुतः क चासौ स्वभावः?
भावविषयकोर्थे स्वत्वे स्वत्वादनन्यो भाव इति चेत्सत्यम्, न किश्चिदन्यत् स्वं नामेति किमत्र भेदेन क्रियते घटादिना पटादिभावविशिष्टेन? द्रव्यार्थस्वरूपस्याभिन्नत्वात्।
सोऽपि यदि भावः भवतीति भावस्वरूपादभिन्न एव, अथ न भवतिभेदो भावः, तदस्तित्वमेव नाभ्युपेमोऽभवनात् खरविषाणवत्।