SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रे अनया च दिशा शब्दब्रह्मतत्त्वभेदसंसर्गरूपविवर्त्तमात्रमिदं जगदित्यादिकारणवादा भिद्यन्ते संज्ञादिभेदात्, ते पुनः सर्वेऽपि परमार्थद्रव्यार्थस्य विधिविधिनयस्य स्वरूपमस्पृशन्त एव प्रवर्त्तन्ते, संक्षेपेणायं हि सर्वोऽपि यत्नः सामान्यभिन्नस्वरूपोपादानेनैव स्वाभि मतनिराकरणाय भवति भिन्नार्थाभ्युपगमात्।। पुरुषवादे तावज्ज्ञानमयो न रूपादिमय इति रूपादीनां तन्मयत्वात्तानि च रूपादीनि कार्यात्मानः, तेषां तन्मयत्वे कार्यत्वानेकत्वानित्यत्वासर्वत्वानि पुरुषस्यैव प्राप्तानि । तस्मात् पुरुषस्यैकत्वनित्यत्वकारणत्वसर्वत्वानि निराक्रियन्तेऽवस्थानां पुरुषमयत्वात् । अवस्थावच्च पूर्वादिनियत्यादिष्वपि। अथ भाववादः स्वभाववादे तु अतिशयश्चायं, आदावेव भेदोपादानात् सम्भवव्यभिचारवृत्त्यनुमत्या भावविशेषणस्वशब्दोपादानात्, यथा नीलमुत्पलमिति, तथैव चार्थस्य निरूपणात्। यदयं भवतीति भूयतेऽनेनेति वा भाव इत्यावयोर्भावशब्दार्थव्युत्पत्तौ तुल्यता, स्वशब्दार्थो विशेषणत्वेन प्रतीयमानश्चिन्त्यः, सोऽस्वव्यावर्त्तनार्थः, तदर्थत्वाच्चेतरेतराभावमात्रविषयः, स्वपराभावादितरेतराभावार्थाभावस्ततश्चास्वाभवने वर्त्तते, न तु भावस्वरूप -प्रतिपादनमिति भावार्थासंस्पर्शान्न किश्चिदनेन। तस्मान्न तत्रोपक्षीणशक्तित्वात् स्वभवनस्य प्रयोजकः, अर्थो वा स्वशब्दं न प्रयोजयति, शब्दवृत्तिविरोधात् । एतदपि वा
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy