________________
द्वितीयो विधिविध्यरः।
-
विपरिवर्त्तमानोऽपि स्वभावात्माऽव्याबाधः साध्यासाध्यद्वैतरूपवदद्वैतरूपः यथा कनकाश्मनि सुवर्णं द्विधाऽविर्भवत् क्रियाक्रियाभ्यां तत्स्वभावः, अन्तरेण धातुवादं यथा कनकाविर्भावस्तथा कर्मविवेक स्वाभाव्यादेव भव्यजीवानामात्माविर्भावः, सम्यग्दर्शनादिज्ञानपूर्विकया तु क्रियया कैवल्यप्राप्तिर्धातुवादक्रिययेव कनकोत्पत्तिः केषाश्चिदनाविर्भाव एव कर्माविवेकस्वाभाव्यात्।
एवञ्च तदुभयस्वभाववर्णनादात्मानो द्विविधा भवसिद्धिकाचा -भवसिद्धिकाच, अभव्यजीवकर्मणोः सन्तानस्याव्यवच्छेदस्वभावाद -नन्तता, भव्यस्य तु विशुद्धिविशेषस्वाभाव्येन व्यवच्छेदात् सान्तता स्वभावादेव । यदि हेतुरन्यो मृग्येत तेनानन्त्यमस्यापि स्यादनादित्वादाकाशवत्।
तदन्तवत्त्वे आकाशमपि सान्तं स्यादनादित्वा व्यकर्मवत् । अथाप्यस्यानादित्वे सत्यहेतुरन्तो भवति ततो निर्हेतुकत्वहेतुकान्तत्ववद्भव्यकर्मसन्तानस्य निर्हेतुकत्वहेतुकादित्वसिद्धिः कस्मान भवतीति स्वभाव एव शरणं कारणवादिनां तदुपायस्वभावत्वान्मोक्ष स्येति । एवं तावद्भव्यसंसारोच्छित्तावभव्यसंसारानुच्छित्तौ च हेतुवादे चोदिते स्वभावाश्रयेण परिहार उक्त एवं सर्वचोयेष्वतिदेश्यः।
स्वभावानभ्युपगमे तु साधनदूषणाभावाद्वादहानं ते प्राप्तम्, तद् यथा पक्षहेतुदृष्टान्तादयः साधनं तद्दोषोद्भावनं दूषणञ्च स्वेन भावेन व्यवस्थितमन्यथा न साधनं न दूषणश्च स्वभावापेतावयवार्थत्वात्, तस्मात् स्वभाव एव प्रभुत्वविभुत्वाभ्यां कारणं जगतः।