________________
द्वादशारनयचक्रे
फलस्वभावे भावे पुरुषप्रयासस्तर्ह्यनर्थक इति चेत्सत्यमेतत् प्रयासोऽनर्थकः, इत्थमनर्थकोऽप्यसौ पुरुषस्यास्त्येव स्वभावादेव ।
९८
प्रवृत्तिनिवृत्त्योरानर्थक्ये किंकृता किंफला वा प्रवृत्तिरतः स्वभावानुरूपप्रवृत्तिप्रतिज्ञाव्याघात इति चेन्न तत्स्वाभाव्यादेव, प्रवर्त्तितव्यमित्येव हि प्रवर्त्तन्तेऽप्रतर्कतो वस्तुनि, अक्षिनिमेषधातुकण्टकादिवत् ।
एवश्च लोकप्रसिद्धिवशाद्यदि हेतुतो यद्यहेतुतो यदस्तु तदस्तु, उभयथापि स्वभावानतिवृत्ति, तत्रानादिप्रवृत्तस्वभावकारणमात्मभवनमाविर्भावतिरोभावरूपेणैकं नित्यमिति न तस्योत्पादो विनाशो विपरिणामो वा ततोऽनादिप्रवृत्तस्वभावकारणव्यत्यासे हिताहितप्राप्तिपरिहारार्थशास्त्रव्यर्थता, पुरुषस्य क्रियायाः फलस्य च तथाऽस्वभावत्वात्, ततोऽन्यथोत्पादविनाशविपरिणामेभ्यः घटार्थं प्रवृत्तेषु पट उत्पद्येत विनाशार्थं प्रवृत्तेष्वविनाशो विपरिणामार्थं प्रवृत्तेष्वविपरिणामश्चेति स्वभावानियमान्नोत्पादविनाशविपरिणामाः सन्ति ।
अतः शास्त्रार्थवत्त्वाय घटादेः कारणमन्विष्यमाणं वरमिदमेव कारणं स्वभावः, तत्कारणं द्विधा प्रतिवस्तु स्व एवाऽऽत्मीय एवात्मैव बा भावः, स चैकोऽपि कर्तृकर्मकरणादिकारकभेदं स्वशक्तिभेदादेव लभते, तद्यथा स एवानुभवति सोऽनुभूयते ।
स्वयं द्रव्याण्येव कर्माकर्मत्वस्वभावानि संयुज्यन्ते वियुज्यन्त इति संसारमोक्षौ स्वभावतः, अन्योऽन्यसंयोगवियोगविपरिवर्तनेन