________________
द्वितीयो विधिविध्यरः ।
स्वभावैवोत्पत्तिर्नाकाशादिषु । दृष्टा घटादीनां क्रियाया उत्पत्तिरिति चेन्न, प्रागनभिव्यक्तेः ।
९७
सा सत्यग्रहणनिमित्तावभावे किमिति चेत् स्वभावादेवेति, त्वयैवाभ्युपगतत्वादतिसन्निकृष्टमतिविप्रकृष्टं व्यवहितं वाऽञ्जनमन्दरादि चक्षुरादिना न गृह्यत इति यथा स स्वभावस्तथायमपीति किं न गृह्यते ? |
यथैतत्तथा किञ्चिदत्यन्तानुपलब्धिस्वभावमेव भवत्यात्मादि, तत्र न सन्त्यात्मादयोऽर्था इति वृथैव विवदते शाक्यादयः । तन्न पुरुषकामचारप्रवृत्त्यादिभ्यः किञ्चिदपि निर्वर्त्तते, किन्तु भूम्यबादिब्रीह्यङ्कुरादिमृद्धटायभिव्यक्त्यनभिव्यक्तिस्वभावम्, वस्तुत्वात्तदात्मत्वात्, तन्न कुतः कस्यचिदर्थिनोऽप्येवं वा विपर्यय एव वाssरम्भक्रियानिर्वृत्तयः ?
तथा चाहुः
"चित्रकः कटुकः पाके वीर्योष्णः कटुको रसे ।
तद्वद्दन्ती प्रभावात्तु विरेचयति सा नरम् ॥”
इति प्रभाव इति स्वभावपर्यायत्वाद्रसादेरपि स्वभावत्वात् स एव तथा तथा वर्ण्यते इति, तस्मात् कथं घटोत्पत्त्यादि सम्भाव्यते?
कुलालप्रयत्नप्रेरितदण्डचक्रसूत्रोदकमृदादीनां पुरुषाभिसन्ध्यनु - रूपघटाद्युत्पत्तिविनाशविपरिणामफलैः सम्बन्धदर्शनान्न स्वभाव एवेत्येतच्चायुक्तम्, प्रवृत्तिमतां हि स स्वभाव एव फलस्व -- भावानुरूपाः प्रवृत्तयोऽत एव व्यवस्थिताः । व्यवस्थितप्रवृत्ति