________________
९६
द्वादशारनयचक्रे
मूलतः क्रमहीनतनुरायतादि, पुनस्तदेव तीक्ष्णादिभूतम्, न पुष्पादि ताहग्गुणं, तच्च वृक्षादीनामेव, तत्रापि बब्बुलादीनामेव, न न्यग्रोधादीनाम् ।
मयूराङ्गकबर्ह्रादीनामेव पञ्चवर्णतावैचित्र्याणि । अत्राह च - 'कः कण्टकानां' इत्यादि, 'केनाजितानि' इत्यादि ।
यदि स्वभाव एव कारणं किं कारणं न स्वभावमात्रादेव भूम्यादिद्रव्यविनिर्वृत्तिनिरपेक्षा कण्टकाद्युत्पत्तिर्भवेत्? किश्व कारणमन्यथापि न स्यात् सोऽपि कण्टकः किमर्थं कदाचित् किञ्चिद्विध्यति किञ्चिच नेति चेन्न, भूम्यादिस्वभावानपेक्षोत्पत्तिदर्शनात् स्वभावाव्यभिचाराच्च तद्यथोत्पातादिष्वकण्टकानां वृक्षादीनां कण्टकाः, कण्टकिनाश्वाकण्टका दृष्टाः उत्पातादिस्वभावनियमबशादप्यनपेक्षितद्रव्यकालादिरपि कण्टकाद्युत्पत्तिर्दृष्टैव ।
अपि च भूम्यबादिद्रव्यविनिर्वृत्त्यपेक्षैव कण्टकनिर्वृत्तिरिति ब्रुवता ननु सैव स्वभावसिद्धिस्त्वयैव वर्ण्यते, भूम्यादिभ्य एव कण्टको भवतीति तत्स्वभाववर्णनात् अन्यथा स्वभावात् किमन्यदत्र शक्यं वक्तुं कारणम्?, तेषां तत्तत्स्वाभाव्यात् ।
यथा पृथिव्यादिविश्वथा भावः पुरुषप्रयत्ननिरपेक्ष एव भवति, एवं निमित्तानामपि घटपटायुत्पत्तौ निमित्तता स्वाभाविकीति तत्कुत उत्पत्तिरिति सा प्रतिवस्तु स्वभाव एव, वयः क्षीरादिवत् ।
यदि वाऽसौ नेत्थं स्यादुत्तरत्रापि न भवेदेवाभूतत्वात्, वन्ध्यापुत्रवत्, एवं मृदादिषु सतामेव घटादीनां निमित्तापेक्ष