________________
द्वितीयो विधिविध्यरः।
स्वत्वं तद्धि स्वात्मभिरेव, अन्यथा त एव न स्युरनात्मत्वात्, घटपटवत्, एवं पुरुषादयोऽप्यात्मानात्मत्वादात्मानो न स्युः खपुष्पवत्।।:: -
एवमेवैतदवश्यमत्रेव स्वभावव्यतिरिक्तार्थाभावात् तत्र तत्र स्वभावानतिक्रमात्स्वभावा एवेति सर्वैकत्वमभिन्नं वर्ण्यत इति स्वभावः प्रकृतिरशेषस्य।
पुरुषादीनाश्च स्वत्वे सत्त्वानपोहात्तुल्ये काल एव भवनात्मा न पुरुषादय इति न स्वभावादृते सिद्धयति तत्स्वतत्त्वस्य सत्त्वाविनाभावात्, न, अतुल्यत्वात् सत्त्वस्य, कालस्यैवैकस्य व्रीहिवत्तथा तथा भवनात्, पुरुषादेश्व पृथक् पृथक् भिन्नभावात्मभवनात्।
नन्वेवमपि कालस्यैव नान्यस्येति कारणकार्यनियमात्मा स एव तस्य स्वभावः।
कालस्यैव तत्त्वाद्विभागाभावात्सामान्यविशेषव्यवहाराभाव एवेति चेदेवमपि स एव स्वभावः । व्यवहारप्रत्याख्याने च प्रागभिहितकालास्तित्वानुमानप्रत्याख्यानदोषः । यदपि च कालानुमानं युगपद्युगपद्वृत्त्योच्यते तदपि स्वभावानुमानमेव सम्पद्यते । युगपदयुगपद्वर्तनातिरिक्तस्य कस्यचिदभावादुद्देश्यनिर्देशार्थं घटरूपादि ब्रीह्यमुरादि चोदाहृतं तस्योद्देश्यस्य निर्देश्यस्य च भावस्य तेन तेनात्मना भवनादेव तु स्वभावोऽभ्युपगतः।
___ अथवा नैतयुक्तिगम्यं स्वभावकारणं तथा च दृश्यते तेष्वेव तुल्येषु भूम्यबादिषु हेतुषु भिन्नात्मभावः प्रत्यक्षत एव कण्टकादि