SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ (३७) || दण्डकप्रकरणम् ॥ दण्डक दण्डत्रिकस्य विरतिविरमणं दण्डत्रिक विरतिः त्रिकरित्या सुलभं सुप्रापं दण्डत्रिकविरतिसु भं किंभूतस्य मम भक्तस्य-भक्तिमतः केषां ? युष्माकं पुनः किंभूतस्य मम ? दण्डक पदभ्रमण भग्नहृदयस्य दण्डपदेषु सूक्ष्मबादरपर्याप्तापर्याप्तरूपेषु भ्रमणं पुनर्गत्यागतिरूपं तस्मात् भग्नहृदयस्य निवृत्तचित्तस्येत्यर्थः । दण्डकानां पदानि दण्डकपानि दण्डपदेषु भ्रमणं दण्डकपदभ्रमणं दण्डपदभ्रमणात् भग्नं- नि वृत्तं हृदयं चित्तं यस्य स दण्डकपदभ्रमण भग्नहृदयस्तस्य दण्डकपदभ्रमण भग्नहृदयस्य इति गाथार्थः ॥ ४३ ॥ सिरिजिणहं समुणीसर- रज्जे सिरिधवल चंदसीसेणं । गजसारेणं लिहिया, एसा विन्नत्ति अप्पहिया ॥ ४४ ॥ ( अव० ) श्रीजिनहं समुनिनामानो ये श्री जिनसमुद्रसूरिपट्टप्रतिष्ठिताः मुनीश्वराः खरतरगच्छाधिपतयः । तेषां राज्यं गच्छाधिपत्यलक्षणं तस्मिन् विजये सैद्धान्तिकशिरोमणानां श्रीभवलचन्द्रगणीनां शिष्येण संविग्नपण्डिताभयोदयगणि लालितपालितेन गजसारगणिना नाम्ना साधुना । एषा विचारषट्त्रिंशिकारूपा श्रीतीर्थकृतां विज्ञप्तिलिखिते तिपदेनौडत्यं परिहृतं । यद्वा पूर्व यन्त्र पत्रतया लिखिता ततः सुगमतायै सूत्रतया गुम्फिता इत्यर्थः । किभूता आत्महिता अनेन " न भवति हि धर्मः श्रोतुः सर्व स्यैकान्ततो हिवश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ॥ १ ॥ इति सूक्तं स्थापितम् ॥ ४४ ॥ " निधिमुनिशरेन्दु (१५७९ ) संवल्लिपीकृता पत्तनेऽवचूर्णिरियम् । संशोध्या धीमद्भिर्मत्वेदं बालचापल्यम् || १ || ॥ श्रीगजसारमुनिप्रणिता स्त्रोपज्ञाऽवचूर्णिः समाप्ता ॥
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy