SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ (३८) ॥ सावणिकं सटीकं च ॥ टीका- सिरिजिणेति. हे जिनाः ! जिनहंसमुनीश्वरराज्ये गजसारेण एषा विचारषत्रिंशिकाकरणरूपा विज्ञप्तिलिखिता । किंभूतेन गजसारेण ?-श्रीधषलचन्द्रशिष्येण श्रिया युक्तो धवल. चन्द्रः श्रीधवलचन्द्रस्तस्य शिष्यः श्रीधवलचन्द्रशिष्यस्तेन श्रीधवलचन्द्रशिष्येण, किंभूता विज्ञप्तिः ?-आत्महिता आत्मने हिता आत्महिता, परेषां बोधो भवतु वा मा भवतु परं वक्तुर्बोधो भवति, यदुक्तं-अस्तु वा माऽस्तु वा बोधः, परेषां कर्मयोगतः । तथापि वक्तुमहती, निर्जरा गदिता जिनैः ॥ १ ॥ ४४ ॥ अथ टीकाकारप्रशस्तिः-- (आर्या) श्रीहीरविजयसूरीश्वरा बभूवुर्जगत्त्रयीविदिताः । तवाचका महोदयराजः श्रीभानुचन्द्राहाः ॥ १ ॥ जयन्तु ते वाचकभानुचन्द्रा, अभ्यस्तसवाङ्मयवीततन्द्राः । ये मानसे हंसतया बभूवुरकब्बरक्षोणिपतेस्तु भूते: ॥ २ ॥ श्रीभानुचन्द्रामलपट्टचारुप्रासादगार्जुनकुम्भकल्पाः । ते सन्तु चारूदयचन्द्रसन्तः, सुखापनोः सूरिकलालसन्तः ॥३॥ सर्वार्थसार्थाकृतिकामधेन्वाः, यस्य प्रासादाद गुणचक्रधाम्नः । षट्त्रिंशिकायाः किल रूपचन्द्रो वृत्तिं चकारोदयचन्द्रशिष्यः ४ संवत्शरर्ण्यङ्गनिशेश १६७५ वर्षे, ज्येष्ठस्य कृष्णेतरचारुपक्षे । षष्ठयां तिथौ वाक्पतिवर्यवारे,स्वस्यावबोधाय विनिर्मितेयम् ५ अनुष्टुभ-ग्रन्थाग्रगणितं सर्व, संख्ययाऽत्र विनिश्चितम् । षट्त्रिंशदधिकं पश्च, शतं जातमनुष्टुभाम् ॥ ६ ॥ ॥ श्रीरूपचन्द्रमुनिप्रणिता वृत्तिः समाप्ता ॥ sexsexexexeySPEAKeysexsex
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy