________________
॥ सावचूर्णिकं सटीकं च ॥
त्यवसानानू शब्दान् प्रति प्रत्येकं भवन्तीति क्रिया प्रयोज्येत्यर्थः । अत्र चकारः समुच्चयार्थः । घण्टालालान्यायेन पूवमग्रतः सर्वत्र अधिका भवन्ति च इति ग्रहणीयम्ल्पबहुत्वद्वारं समाप्तम् । अथ गाथोत्तरार्धेन ( दण्डकभ्रान्ति दर्शयति-) सर्वेऽपि च इमे पूर्वोक्ता भावाः पर्याप्तास्तेषु तेषु जीवस्थानेषु गमनागमनरूपाः है जिना ! मया भवे भ्रमता अनन्तशोऽनन्तकृत्वः प्राप्ताः । यथा म्या तथाऽन्यैरपि जीवैः । एतेन स्वामिनां पुरः स्वदुःखं निवेदितम् । अथ तबिमोचनलक्षणां प्रार्थनामाह-सव्वेवि इमे भावेति. हे जिना ! परमेष्ठिनो ! मया सर्वेऽपि इमे चतु. विशरि दण्डकभाषाः अनन्तशः प्राप्ताः अनन्तवारानू संप्राप्ता इत्यर्थः, अनन्तधारान् अनन्तशः ॥ ४१ ॥ ४२ ॥
संपइ तुम्ह भत्तस्स, दंडगपयभमणभग्गहियअस्स । दंडतियविरय(इ)सुलहं,लहुं मम दिंतु मुक्खपयं ॥४३
( अव० ) हे जिना इति पदं पूर्वस्थित मिहापि गृह्यते । तेन हे जिनाः ! सम्पति इह भवे भवतां भक्तस्य त्रिकरणशुद्धया भक्तिमतः । दण्डकपदेषु सूक्ष्मबादरपर्याप्तापर्याप्तरूपेषु भ्रमणं पुनः पुनगत्यागतिरूपं तस्माद्भग्नं निवृत्तं हृदयं मनो यस्य एवंविधस्य मम विज्ञप्तिकत्तुः । दण्डत्रिकात् मनोवाक्कायानर्थप्रवृत्तिरूपाद्विरतानां सुलभं सुप्रापं दण्डत्रिकविरतमुलभं मोक्षपदं लघु शीघ्रं भवन्तो ददतु वितरन्तु ॥ ४३ ॥ ग्रन्थकारः स्वनाम कथयति
टीका-सम्पइ तुम्हे ति० हे जिना ! हे परमेष्ठिनो भवन्तः सम्प्रति शीघ्रं मम मोक्षपदं-शिवपदं ददतु दिशन्तु दिन्तु इति क्रियापदं भवन्त इति कर्तृपदमध्याहार्य । अथवा प्रा. कृते हि सर्वे विधयो विकल्प्यन्ते इतिवचनात् युष्मदर्थे अन्य. दर्थवानप्रवृत्तिरित्यर्थः । कथम्भूतं ? मोक्षपदं दण्डत्रिकविरति. मुलभं दण्ड्यन्ते सर्वस्वापहारेण लुप्यन्ते जन्तवः प्राणिन एभि. रिति दण्डाः मनोवाक्कायरूपा इत्यर्थस्तेषां त्रिकं दण्डत्रिक