________________
|| दण्डकप्रकरणम् ॥
टीका - तेउवाऊ इत्ति० तेजोवाय्वोर्गमनं पृथिव्यादिनवपदेषु स्थावर विकलेन्द्रियतियक्षु तेजोवायुजीवानामुपपातः स्यात्, स्यादित्यध्याहारः । पृथिव्यादिनवपद सम्बन्धिनो (पु) जीवा (वेषु) (गच्छ) भवन्तीत्यर्थः । प्राकृतत्वात् द्विवचनं न स्यात् एकवचनं बहुवचनं च स्यात्, (तां), द्वयोस्तेजोवाय्वोर्गतिद्वारं कथितम् । अथ विकलानां गतिद्वारमाह-पुढवाइटाणेति० विकलेन्द्रियेषु पृथिव्यादिस्थानदशका जीवा यान्ति, स्थावरविकलेन्द्रियतिर्यग्मनुष्या गच्छन्ति इत्यर्थः । विकलानां गतिद्वारं व्याख्यातम् । अथ विकलानामागतिद्वारमाह-तेषु पृथिव्यादिस्थानदशकेषु विगलेति० द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियत्रिकं याति विकलेन्द्रियास्तेषु भवन्तीत्यर्थः विकलानामागतिद्वारं विवर्णितम् ॥ ३८ ॥
अथ गर्भजतिरश्रां गत्यागतिद्वारमाह
गमणागमणं गब्भय - तिरिआएं संयलजीवठाणेसुं । सव्वत्थ जंति मणुआ, तेउवाउहिं नो जंति ॥ ३९ ॥
(३३)
( अव० ) गर्भजतिर्यंचो मृत्वा चतुर्विंशतिदंडकेषु यांति । चतुर्विंशतिदंडकेभ्यश्वोत्प । इति गर्भजतिर्यगूगत्यागती । मनुजा मनुष्याः सर्वत्र यांति । सर्वत्रेतिवचनबलात् चतुर्विंशतिदंडकजीवेषु कालक्षेत्रसंहननसद्भावे च सिद्धावपि यांति | आयतश्च मनुजास्तेजोवायुवर्जितेभ्यो द्वाविंशतिदंडकेभ्यः समायति । इति समर्थिते सविस्तरं गत्यागतिद्वारे | अथ चतुर्विंशं वेदद्वारमाह ।
I
टीका- गमणेति सकलजीवस्थानेषु चतुर्विंशतिदण्डकेषु गर्भजतिरश्चां गमनागमने - गत्यागती भवतः । अथ मनुष्याणां गतिमाह - सर्वत्र चतुर्विंशतिदण्डकेषु मनुष्या यान्ति गच्छन्ति । अथ मनुष्याणां गतिद्वारं च्यते- द्वाविंशतिदण्डकेभ्यो उधृताश्च्युता जीबा मनुष्या भवन्ति, तेजोवायुभ्याम् च्युता जीवा मनुष्यत्वेन नोत्पद्यन्ते, न मनुष्या भवन्तीत्यर्थः । सूत्रपाठत्वात् अ वापि व्यस्तं प्रतिपादितं, अनुक्रमेण नोक्तमित्यर्थः । गत्यागतिद्वारे विवर्णिते ।। ३९ ।।
०