________________
|| दंडकप्रकरणम् ॥
पज्जत्तसंखगब्भय, तिरियनरा निरयसत्तगे जंति । निरयउवा एएसु, उप्पजंति न सेसेसु ॥ ३५ ॥
( ३१ )
( अव० ) पर्याप्त संख्यातायुषो गर्भजतिर्यग्नराः नरकसप्तके यांति 'असन्नि खलु पढम' मिति वचनात् असंज्ञिनोऽपि प्रथमां पृथिवीं यावद्यांत । परं तेषामिह नाधिकृतत्वात् । नरकादुडताथ जी - वा एतल्लक्षणेषु एतेष्वेव तिर्यङ्नेरपृत्पद्यते न शेषेषु जीयेषु । इति नारकगत्यागती ||३६|| अथ पृथ्व्यब्वनस्पतीनां गत्यागती आह
टीका पज्जत्तेति० पर्याप्ताः संख्यातायुषो गर्भजतिर्यचः सं. ख्यातायुषो नराश्च सप्तसु निरयेषु यान्ति - गच्छन्ति । “ असन्नी खलु पढमं " इति वचनात् असंज्ञिनोऽपि प्रथमां पृथिवीं यावत् यान्ति परं तेषां इहानधिकृतत्वात् नोक्तं । नैरयिकगतिद्वारं व्याख्यातं । अथ नैरयिकागतिद्वारं व्याख्यानयति । निरउत्ति० तथा निरयान्नरकात् उध्धृताश्च्युता जीवा एतेष्वेव संख्याताroy गर्भज तिर्यग्मनुष्येष्वप्युत्पद्यन्ते आयान्तीत्यर्थः शेषेभ्यो द्वाविंशतिद्वारेभ्यो नैरयिका जींवा न भवन्ति, एतेषु च नोत्पद्यन्ते नायान्तीत्यर्थः । नैरयिकागतिद्वारं प्ररूपितं ॥ ३५ ॥
अथ पृथिव्यवनस्पतिषु जीवानां गतिद्वारमाहपुढवी आउवणस्सइ, मज्झे नारयविवज्जिया जावा । सव्वे उववज्जंति, नियनियकम्माणमाणेणं ॥ ३६॥
(अव० ` पृथिव्यन्वनस्पतिकायमध्ये नारक विवर्जिताः सर्वे त्रयोविंशविदंडकस्था जीवा उत्पद्यते । निजनिजयथाकृतकारितानुमोदितकर्मणामनुमानेन । नजनिजेतिवदता सूत्रकृता स्वयं कृतं कर्म भुज्यते न परकृतमित्यावेदितम् । कर्मनुमानेनेति सत्कर्मणा शुभस्थाने असत्कर्मणाशुभस्थाने || ३६ || एतेषामेव गतिद्वारमाह ।