SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ॥ दंडकपकरणं ॥ पृथिव्यादिदशपदानां जघन्यां स्थितिमाहपुढवाइदसपयाण, अंतमुहुत्तं जहन्नआउठिई। दससहसवरिसठिइआ, भवणाहिवनिरयवंतरिया॥२९॥ (अव०) स्थावरपंचकविकलत्रिकतिर्यकनराणामतर्मुहत्तै जघन्या. युः स्थितिः । भवनाधिपनरकव्यंतरा जघन्यतो दशसहस्रस्थितिका भवति . २९ ॥ अथ वैमानिकानामायुःस्थितिमाह । टीका-पुढवाइदसे तिः पञ्च स्थावरानयो विकलेन्द्रिया द्वौ मनुष्यतिर्यञ्चो सर्वाणि मीलितानि पृथिव्यादीनि दश पदानि जातानि । एतेषां पृथिव्यादिदशपदानामन्तर्मुहूर्त जघन्यमायुर्भवति । अथ भवनाधिपानां जघन्यस्थितिमाह- ससहसेति. -भवनाधिपानां नैरविकाणां व्यन्तराणां च दशवर्षसहस्राणि जध. न्या स्थिति:या ॥ २९ ॥ अथ वैमानिकानां स्थितिमाहवेमाणिजोइसिया, पल्लतयउंसआउआ हुंति । सुरनरतिरिनिरएसुं, छ पजत्ती थावरे चउगं ॥ ३०॥ ( अव० ) वैमानिका ज्योतिषिकाच जघन्यतः क्रमेण एकपल्योपमाष्टभागायुषो भवन्ति । अथैकोनविंशतितम पर्याप्तिद्वारमाह । सुरनरतियनिरयेषु पर्याप्तेषु षट्पर्याप्तयो भवन्ति । स्थावरे आहारशरीरइंद्रियश्वासोवासरूपं पर्याप्तिचतुष्कं, अपर्याप्ता अपि जीवा पर्याप्तित्रयं समाप्यैव म्रियते नार्वाक् ॥ ३० ॥ टीका-वेमाणीति० वैमानिकानां जघन्य पल्योपममायुभवति । ज्योतिष्काणां च तदष्टांश आयुर्भवति । तस्य पल्यस्य अ. ष्टांशः पल्यस्याष्टांशोऽ( पल्याष्टांशोऽ ) ष्टमो भागो भवती.
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy