SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ (२८) ॥सावचूर्णिकं सटीक च ॥ त्यर्थः । उत्कृष्टजघन्ययोः स्थितिमभिधाय अथैकोनविंशतितम पर्याप्तिहारमाह-सुरनरेतिक भवनपत्यादिवैमानिकान्तेषु सुरेषु नरेषु नै यिवेषु तिर्यक्ष च षडपि पर्याप्तयो भवन्ति । पञ्चसु स्थावरेषु आहारशरीरेन्द्रिय श्वासोच्छ्रवासभेदात् चतस्रः पर्यातयो भवन्ति ॥ ३० ॥ अथ विकलानां पर्याप्तिमाहविगले पंच पजत्ती, छदिसि आहार होइ सव्वेसिं । पणगाइपए भयणा, अह सन्नतियं भणिस्सामि ॥३१॥ ( अव० ) पूर्वोक्तं पर्याप्तिचतुष्क भाषापर्याप्त्यधिकं विकले पर्याप्तिपनकम । अथ विंशतितममाहारबारमाह । सर्वेषां जीवानां पदिक्क आहारो भवति । सर्वे जीवा दिवषट्कस्थानाहारपुद्गलान् गृहन्तीति भावः । पञ्चदिक्कादिके आहारे भजना। यथा लोकात्वर्तिजीवानां पश्चदिक्कः । लोकनिष्कूटस्थानां त्रिचतुर्दिक्कः । एकविंश संज्ञाद्वारमाह । अथ संज्ञात्रिकं भणिष्यामि ॥ ३१॥ टीका-विगले पञ्चेति विकलानां द्वित्रिचतुरिन्द्रियाणामा. हारशरीरेद्रयश्वासोच्छ्वासभाषाभेदात् पञ्च पर्याप्तया भवन्ति । पर्याप्तिद्वारं व्याख्यातं । अथ विंशतितममाहारद्वारं वि. वृणोति । छ दिसित्ति० षट्सु दिक्षु सर्वेषां संसारिणां जीवानां गत आहारो भवति । षड्भ्यो दिग्भ्यो जीवा आहारं गृति इत्यर्थः । लोकान्ते लोकप्रान्ते च पुन: लोककोणे लोकाटे ये जीवास्संति तेषां जीवानां पञ्चसु अथवा चतसृषु तिसृषु यथा संभवमाहारो भवति, पञ्चकाटि पदेषु भजना कोऽर्थः ? केचन जीवाः पञ्चसु दिक्षु गतान पुगलान केचन चतसृषु दिक्षु गतान् पुगलान केचन तिसृषु दिक्षु गतान पुदलान् आहारयन्ति इति भावः । किमाहारद्वारं व्याख्यातं । अथैकविंशतितमं संज्ञाद्वारं व्याख्यानयति । अहे ति० अथ संज्ञात्रिक भणियामि भणामी. त्यर्थः ॥ ३१ ॥
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy