________________
(२६)
॥सावचूर्णिकं सटीकं च ॥
ततो नक्षत्राणां पल्योपमार्द्ध ततस्तारकाणां पल्यस्य चतुर्थी भा. गः । एषां देवीनां स्थितिमाह-चन्द्रधिमानवासिदेवीनां पञ्चाशवर्षसहस्राधिक पल्याई तत: सूर्यदेवीनां पञ्चशतवर्षाधिकं प. ल्याई ततो ग्रहदेवीना पल्याद्धमेव नक्षत्रदेवीनां विशेषाधिकः पल्यस्य चतुर्थो भागः ततस्तारकदेवीनां किञ्चिदधिकः पल्यम्याष्टमो भागः । अथ ज्योतिष्काणां जघन्यां स्थितिमाह-चन्द्रा दिदेव देवीरूपाणां चतुर्णी युगलानां पल्यस्य चतुर्थो भागः प ऽचमके युगले तारकदेवदेवीरूपे पल्याष्टमो भागः ॥२७॥
असुराणां स्थितिमाहअसुराण अहियअयरं, देसूणदुपल्लयं नवनिकाए । बारस वासुणपणदिण, छम्मासुकिट्ट विगलाऊ ॥२८॥
(१०) असुराणां चमरादीनां कियताप्यधिकमतरं सागरोपम. शेषे निकायनवके देशोनपल्योपमट्रिकं दक्षिणदिशमाश्रित्य वयपल्योपमं उत्तरस्यां तु द्वे देशोनपल्योपमे । द्वीन्द्रियाणां बादशवर्षाणि । त्रीन्द्रियाणामेकोनपश्चाशद्दिनानि । चतुरिन्द्रियाणां षण्मासा उ. स्कृष्टामायुः । २८ । उक्तोत्कृष्टा स्थितिः । अथ जघन्यान्तामेवाह
टीका-असुराण अहियेति. असुराणां किञ्चिदधिकमेकमतर. मेकं सागरोपम मित्यर्थः । तत्र दाक्षिणात्यानाम सुराणामेकमतर. मौत्तराणां साधिकमतरमित्यर्थः । दाक्षिणात्यानां धरणेन्द्रादीनां नक निकायानां द्वितीयमई यस्य ..( द्वितीयस्याध यत्र ) तद् वयई सार्द्धपल्योपमा स्थितिर्भवति इत्यर्थः । तथा उत्तरदि. ग्वतिनां नवनिकायानां देशोने किञ्चिदने द्वे पल्योपमे भवतः। तरीतमशक्यं प्रभूतकालतरणीयत्वादतरं सागरोपमं । असुगणां स्थिति प्ररूप्य अथ विकलानां स्थितिं प्ररूपयति । बारसेति. विकलानां-द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरिन्द्रियाणां च दादश वर्षाणि एकोनपञ्चाशद्दिनानि षण्मासाश्च क्रमेणोत्कृष्टा स्थिति. या ज्ञातव्या इत्यर्थः ॥ २८ ॥