SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ॥ सावर्णिकं सटीकं च ॥ टीका-गर्भजतियञ्चो विकला द्वित्रिचतुरिन्द्रिया नैरयिका भवनपत्यादिवैमानिकान्ताश्चैकस्मिन् समये जघन्यत एको हो प्रयो वा उत्कृष्टतः संख्याता असंख्याता वोपपाते तथैव च्यवने च भवन्ति । को भावः ? एकस्मिन् समये उत्कृष्टतः संख्याता असं ख्याताश्च गर्भज तिर्यगादयः उत्पद्यन्ते च्यवन्ते चेत्यर्थः । विशेषमाह-केवलं सहस्रारादूर्ध्व सर्वत्र देवाः संख्याता उत्पद्यन्ते च्यवन्ते च, यतस्तत्र मनुष्या एव यान्ति, आनतादिच्युता देव श्च नरेष्वागच्छन्ति अयं विशेषः । तथा एकस्मिन् समये एक दिसंख्यानां चीपपाते तथैव च्यवने क्षेया, अथवा नियमेति पदं सर्वत्र योज्यम् । सम्मूच्छिममनुष्या असंख्येया उत्पद्यन्ते ध्यवन्ते च । च पुनः घनस्पतिकायिका जीवाः स्वस्थानतः प्रतिसमयमनन्ता एवोत्पधन्ते । तथैव च्यवन्ते, यधस्मात् कारणात एकैकस्मादपि निगोदात् तदसंख्येयभागोऽनन्तजीवात्मको नित्यं च्यवते उद्वर्तते एति चोत्पद्यते । यदा तु परस्थानत उ. त्पद्यमानाश्चिन्त्यन्ते तदा संख्याता असंख्याता एवेत्यर्थः । अथ स्थाघराः पृथिव्याद्याः एकेन्द्रिया: स्वस्थानतः परस्थानतो वेत्यनपेक्ष्य सामान्यतः उत्पत्तौ चिन्त्यमानाः प्रत्येकमनुसमयमसंख्याता भवन्त्युत्पद्यन्ते तथैव असंख्याता एव च्यवन्ते, न पुनः समयाधन्तरेण नाप्येकाचाः संख्याताः ॥ २५ ॥ असैन्निनर असंखा, जह उववाए तहेव चवणे वि बावीससगतिदसवास-सहस्स उकिट्ठ पुढवाई ॥२६॥ (अव०) असंज्ञिनो नरा उत्पद्यमाना असख्याता लभ्यन्ते । अत्रैवातिदेशमाह- यथोपपातद्वारं सङख्यामाश्रित्य व्याख्यातमेवं च्यवनद्वारमप्यवसातव्यम, समानत्वादुपपातच्यवनयोः । अष्टादशं आगरमाह- अग्रेस्थितमप्यायुरिति पदं सर्वत्रानुवर्तनीयम, तेन पृथि: गाः द्वाविंशतिवर्षसहस्राण्युत्कृष्टमायुरिति सर्वत्र योज्यम् । एवं उदकस्य सप्त वायोस्त्रीणि, वनस्पतेर्दशवर्षसहस्राणि ॥ २६॥
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy