________________
॥ दण्डकप्रकरणं ॥
( १७ )
स्यात, नवयोजमात्पुलरसमास्वादयतीत्यर्थः । यथा दूरतस्तितिडीरसाल क्षारादीन् दृष्ट्वा मुखे जलं समेति इति दृष्टातो ज्ञेयः । तथा स्पर्शेन्द्रियस्य नवयोजनानि यावत् विषयो भवति, स्वशरीरं प्रारभ्य नवयोजनप्रान्तं यावत् पुद्गलद्रव्यं स्पर्शेन्द्रियो गृहणाति इत्यर्थः । च पुनरेषां पञ्चानां विषयभेदं विवृणोति - श्रोत्रयोराकर्णनं श्रवणं त्रिधा भवति, यथा- शुभः अशुभः मिश्रश्च । अथवा जीवेभ्यो द्वीन्द्रियादिभ्यः, अजीवेभ्यः पटहादिभ्यो मिश्रेभ्यो भेर्यादिभ्यः, ( शब्दानामुत्पन्नानां ) कर्णयोराकर्णन त्रिविधं स्यात् । च पुनः चक्षुषोर्विलोकनभेदाः पञ्चधा भवन्ति, यथा-चक्षुषा पञ्च शुक्लपीतरक्तनीलकृष्णा वर्णा गृह्यन्ते, पञ्चवर्णा दृष्टिगोचरा भवन्ति इत्यर्थः । तथा घ्राणेन्द्रियस्य द्वौ सुगन्धदुर्गन्धविषयभेदौ भवतः, घ्राणेन्द्रियं सुगन्धदुर्गन्धे गृह्णाति इत्यर्थः, घ्राणविषये समभ्येत इत्यर्थः । रसना - याः पञ्च कटुकादिविषयदा भवन्ति । केऽपि पडण्याहुः, यथा कटुकतिक्तकषायाम्ल मधुरक्षारभेदात् । षण्णामपि रसानां स्वाद जिह्वा जानाति इत्यर्थः । तथा स्पर्शेन्द्रियस्याष्टौ सुकुमालादिविषयभेदा भवन्ति, यथा - सुकुमालकर्कश गुरुलघुशीतोष्णस्निग्धरूक्षभेदात् स्पर्शेन्द्रियः स्पर्शन स्पर्श जानाति इत्यर्थः । पञ्चेन्द्रियाणां सर्व्वेऽपि त्रयोविंशनिर्विषयभेदा जाता इत्यर्थः । अथ श्रवणादीनामवगाहनामाह-चतुर्णां कर्णचक्षुर्धाणरसनानामङगुलासंख्येयभागावगाहना भवति । च पुनः स्पर्शेद्रियस्य स्वदेहप्रमाणावगाहना ज्ञातव्या । अथ केषामिन्द्रियाणां कामभोगेच्छा भवति तल्लक्षणमाह-श्रवणचक्षुषोः कामेच्छा भवति, च पुनः घ्राणरसनास्पर्शेन्द्रियाणा भोगेच्छा भवति, आद्यौ द्वौ कामिनौ ज्ञेयौ त्रयः प्रान्ताः भोगिनो ज्ञेया इत्यर्थः । अथ पषां पञ्चेन्द्रियाणां पुनरुपकरणं किं स्यात्तदाह- कर्णेन्द्रि यादीनां निजनिजविषयग्रहणशक्तिर्यथा चन्द्रहासस्य छेदनशतिरिव । इन्द्रियाणां सदृष्टान्तो विचारः प्रवचनसारोद्धारवृतितो भावनीयः । अष्टममिन्द्रियद्वारं व्याख्यातं । अथ नवमं समुद्वातद्वारं प्ररूपयांत - मणुपसु इति मनुष्ये सप्त समुद्रघाता भवन्ति ॥ १५ ॥