SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ (१६) ॥ सावचूर्णिकं सटीक च ॥ टीका--जोइसियेति० तेजोलेश्याका ज्योनिष्काः भवन्ति । आद्यपदं व्याख्यातं । गाथाद्वितीयपादस्य व्याख्यानमाह-सेसा सव्वेवित्ति० शेषाः सर्वेऽपि चतुलेश्यावन्त: स्युः । को भावः । चतुर्दशदण्डकेषु चतस्रो लेश्याः भवन्ति । तद् विस्तरेणाहभवनपतीनां व्यन्तराणां च कृष्णा नोला कापोता तैजसी चेति चतस्रो लेश्याः स्युः । च पुनः पृथिव्यवनस्पतीनां कृष्णाचाच. तस्रो लेश्याः स्युः, अत्रापि विशेषमाह-परमाधार्मिकाणां कृष्णैव ज्योतिष्केषु आधकल्पद्विके च तेजोलेश्या । कल्पत्रिके सनत्कु मारादिके पालेश्या लान्तकादिषु चानुत्तरान्तेषु शुक्ललेश्या भवति भवति इत्यध्याहारः । सप्तमं लेश्याद्वारं निरूपितं । अथ अष्टम इन्द्रियद्वारं व्याख्यानयति-इंदियेति. इन्द्रियद्वारं सुगममपि वहिस्तः किमपि विशेषमाह-तत्र इन्द्रियाणि पञ्च श्रोत्रादीनि प्रसिद्धान्येव सामान्यतः, विशेषतः पुनस्तानि विधा द्रव्येन्द्रियाणि भावेन्द्रियाणि ( च ) । तत्र द्रव्येन्द्रियाणि पुद्. लद्रव्यरूपाणि भावेन्द्रियाणि लब्ध्युपयोगलक्षणानि, तत्र पुन व्येन्द्रियाणि निर्वृत्युपकरणभेदात् । विधा । निर्वृतिरपि द्विधा अन्तर्बहिश्च । तत्र श्रोत्रेन्द्रिस्यान्तमध्ये कदम्बपुष्पाकारदेहाथयवरूपा चक्षुषोर्मसूराकारा घ्राणयोरतिमुस पुष्पाकार' रसना. याः क्षुरप्राकारा स्पर्शेन्द्रियस्य च नानाकारा पिचित्रसंस्थाना निवृत्तिरस्ति इत्यर्थः । द्रव्येन्द्रियस्वरूपं प्रोक्तं, अथ भावेन्द्रि याणि लब्ध्युपयोगरूपाणि जीवस्य ज्ञानावरणादिकर्मक्षयोपश. मभावात् या शब्दग्रहणशक्ति: सा लब्धिः , येन पुनः शदादी. नां ग्रहणपरिणामः स उपयोगः, एतद्वयरूपाणि भावेन्द्रियाणि । द्रव्येन्द्रियभावेन्द्रिययोः संस्थानं स्वरूपं च व्याख्यातं । अथ एषां पञ्चेन्द्रियाणां विषयमाह- श्रवणयोर्वादशयोजनविषयः स्यात्, द्वादशयोजनात् मेघादीनां शब्दग्रहणशक्तिरस्ति इत्यर्थः। च पुनः चक्षुषोः किञ्चिदधिकं एकं लक्ष विषयः स्यात, उत्कृटतः किञ्चिदधिकमेकं लक्ष दृष्टिप्रमरणं भवति इत्यर्थः, अत्र ज्ञातं विष्णुकुमारदृग्गोचरता । च पुनः घ्राणेन्द्रियस्य नव यो. जनानि यावत् विषयः स्यात्, नवयोजनात् विषयं गृह्णाति इ. त्यर्थः । पुनः उत्कृष्टतो रसनायाः नव योजनानि यायद्विषयः
SR No.022358
Book TitleDandak Prakaranam
Original Sutra AuthorN/A
AuthorGajasarmuni, Vijayodaysuri
PublisherGranth Prakashak Sabha
Publication Year1925
Total Pages222
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy