________________
88888888888888888888888888888888888888888888]
8888888888888
(३६९) आप्तवाक्यात् परं यत् यत् प्रमाणाभासमेव तत्। पक्षाऽभासास्त्रयस्तत्र · मध्यमोऽनेकभेदतः॥
(३७०) साध्याधिकरणः पक्षः, पक्षता यत्र विद्यते। पक्षाभावस्त्वसौ ज्ञेयः, पक्षधर्मो न यत्र वै॥
(३७१)सुवर्णपर्वतश्चायं वह्निमान् धूमदर्शनात्। न काञ्चनमयः कोऽपि पर्वतो भुवि दृश्यते॥
(३७२) विशेषणविशिष्टा हि पक्षता नेह विद्यते। | कोशे चागमे वापि वर्णितः कनकाचलः॥
(३७३) नाम्नासौ कर्मणा नैव क्षेत्र चञ्चाख्यमानवत्। उपयोगो यस्य नैवास्ति ह्याप्तेन कथितोऽपि सन्॥
(३७४) आप्तवाक्यं प्रमाणं तन्नैव लोकोपकारकम्।
दुग्धदाधेनवः सन्ति परा नाम्ना न कर्मणा॥ B8888888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ६३
88888888888888888888888888888888888888888888