________________
४४
३४४४४४४४४४४४ (३५७) एवं विधो विचारो हि सकलो विकलो गतः । संग्रहादिप्रभेदेन न्यायोऽनेक
विधो मतः॥
(३५८)
सामान्यं द्विविधं प्रोक्तं पूर्वं चैतत् प्ररूपितम् । ऊर्ध्वतिर्यक्त्वभेदेन गवादौ कुण्डलेऽपि तत्॥ (३५९)
विशेषः द्विविधः प्रोक्तो गुणपर्य्याय भेदतः । वस्तुविभेदको धर्मो विशेषः परिकीर्तितः ॥
(३६०) द्रव्येण सह योजातः स गुणः कथितो बुधैः । गन्धं विहाय न क्वापि क्षितिरुत्पद्यते पुनः ॥ (३६१)
स्पर्शेन शीतले नापो हिमं कर्कादि विदवः । द्रव्यमाश्रित्य पश्चाद्धि पर्याय उत्पद्यते ॥
(३६२)
प्रत्यक्षादि प्रमाणानां चतुर्णां द्विविधं फलम् । अनन्तरं फलं त्वाद्यं पारम्परिकमन्यकम्॥ ४४४४४४४४8888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ६१