________________
BREKK
३४४४४४४४
8888888888888888888
(२९१) पश्चादपि परेणैव कालेन भविता घटः । नैव चानेन कालेन भाविनी प्रतियोगिता ॥
(२९२) एवं घटात्मके द्रव्ये चायाता प्रतियोगिता । कालत्रयात्मिका तत्र सम्यग् दृष्ट्या विविच्यताम् ॥ जैनमतेन उपलब्धिर्विविच्यते
(२९३) अविरुद्धा विरुद्धा वा ह्युपलब्धी द्वे निरूपिते । आद्या हि षड्धा प्रोक्ता सेवेदानीं विविच्यते ॥ (२९४) साध्यसाधनयोर्यत्र विरोधो नैव दृश्यते । साध्या सा साधना वेति ते द्वे च गणिते मया ॥ (२९५) यत्र धूमोपलब्धिः सदैव न तु खण्डितः । लभ्यते पावक स्तत्र विद्वद्भिः परिशीलिता ॥
(२९६) व्याप्त्या च व्यापकेनापि व्याप्यव्यापकभावतः । साऽविरुद्धोपलब्धिस्तु वर्णित:
सप्रमाणतः ॥
8888888888888888888888
श्रीजैन सिद्धान्तकौमुदी : ५०