________________
8888888888888888888888888888888888888888886
RE8888888888888888888888888888888
(२८५) अत्यन्ताभाव एवासौ वस्तु सत्ता न विद्यते। परन्तु न्यायविदुषा नायमङ्गीकृतः कुतः॥
(२८६) अत्यन्ताभाव एवासौ यत्रास्ति प्रतियोगिता। कालत्रयेऽपि मन्तव्यश्चात्यन्ताभाव एव सः॥
(२८७) तदा घटात्मके द्रव्ये नैवासौ स्यात् कथञ्चन। | कालत्रयात्मिका तत्र नैवास्ति प्रतियोगिता॥
(२८८) सत्यमुक्तं त्वया तत्र मम भावोऽपि वेदितः। तं बोधयामि त्वां प्रेक्षस्व सावधानतः॥
(२८९) | इदानीं भूतले चात्र कपाले नास्ति वै घटः। प्रतियोगि घटे या हि वर्तमानावगाहिनी॥
(२९०) अनेनैव क्षणेनैव पुरा नासीदयं घटः।
अतीतकालिकों तत्र घटे सा प्रतियोगिता॥ B888888888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ४६
8888888888888888888888888888888888888888888688