________________
8888888888888888888898888888888888888888888888888883
8888888888888888
(२७३) प्रतिज्ञावचनं पक्ष इत्यपि कोऽपि चोचिवान्। अनुमायां यदुद्दिश्यं पक्षमाहु परेऽपि च॥
(२७४) सिषाधयिषया शून्या सिद्धिर्यत्रन दृश्यते। स पक्षस्तत्र वृत्तित्वज्ञानादनुमतिर्भवेत्॥
(२७५) . मुण्डे मुण्डे मतिर्भिन्ना कस्य कार्यः परिग्रहः। विभ्रमे पतितो लोकः सदा भ्राम्यति चक्रवत्॥
(२७६) संदिग्धसाध्यवान् पक्षे दोषस्तत्रप्रदीयते। गृहमध्यगतेनापि श्रुत्वा मेघस्य गर्जनाम्॥
(२७७) गगनं मेघवदस्ति कृता त्वनुमितिर्यदा। संदेहेन विना तत्र जाता त्वनुमितिधुंवा॥
(२७८) दृष्टोऽयं व्यभिचारोऽत्र, नासौ पक्षो निगद्यते। निर्दोषोऽपरः पक्षस्ततो भूयो गवेष्यताम्॥ SRSRSREBREREREBBBBBBBBBBBBBBBS
श्रीजैनसिद्धान्तकौमुदी : ४७
18888888888888888888888888888888888888888888888888