________________
8888888888888888888888888888888888888
(२६७)
4888888888888888888888
दृष्टान्तदर्शनेनैव स्थिरीस्यान्निपक्षकः। परो निजाग्रहं व्यक्त्वा तन्मतं मनुते स्फुटम्॥
(२६८) | उपसंहरेण संदिग्धे पक्षे साध्यसमर्थनम्। | यथा महानसं तादृक् तथैव शिखरीस्फुटम्॥
(२६९) * साध्यधर्मिणि सद्धेतुस्तिष्ठत्येव न संशयः। प्रतिपक्षे कुतो नैव गिरौ धूमो न वा हृदे॥
(२७०) धर्मी शब्देन पक्षो हि कथ्यते न्यायशासने। | नैव देवार्चकः कश्चिच्छ्रावको मुनिवन्दकः॥
(२७१) | शिलान्यासं विना नैव गृहारम्भो विधीयते। अनुमानं तथा पक्षाद् ऋते नैव प्रवर्तते॥
(२७२) पक्षस्य विषयेऽनेके वादा विज्ञैः प्ररूपिताः। | संदिग्धसाध्यवान् पक्ष इति पूर्वविदां मतम्॥ SEBBBBBBBBBBBBBBBBBBBBBBBBBBAS
श्रीजैनसिद्धान्तकौमुदी : ४६
8888888888888888888888888888888888888888888888888