________________
888888888888888888888888888888888888888888
8888888888888888
(२३७) | पावको लभ्यते नो वा संदिहानो भ्रमत्यसौ। * गिरेस्तु शिखरे धूमं निर्गच्छन्तं निरन्तरम्॥
(२३८) समालोक्य स्मृतिः तस्य जागर्ति निजदेहजा। | मदीय भोजनागारे धूमो दृश्यते यदा॥
(२३९) - गृहमध्यगतेऽवश्यः पावकश्चोपलभ्यते। इहापि प्रेक्ष्यते. धूमो गूढोऽग्निर्नेव तादृशी॥
(२४०) भाव्यं वै वह्निनाऽवश्यं धूमो नैव विनापि तम्। एवं प्रतिभया युक्त्या सन्देहं च निरस्य सः॥
(२४१) 9 पर्वतो वह्निमानमस्ति निश्चयो मे न संशयः। इदं स्वार्थानुमानं च स्वीयसन्देहदूरकम्॥
(२४२) निरस्य निजसंदेहं परसंदेहवारकम्। | अनुमानं परार्थं तत् परशङ्काविभञ्जकम्॥ B888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ४१
888888888888888888888