________________
8888888888888888888888
888888888888888888888888888888888
(१७१) गीताकारस्तु शाब्दं हि मुख्यं गणयति स्फुटम्। तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ॥
(१७२) ॐ आर्ष तच्च प्रमाणं हि दिव्यज्ञानर्षिभिः कृतम्। | अव्याहतं परं ज्योतिरतीतं भाविवेदकम्॥
(१७३) उपमानं विहायान्यत् प्रमाणं जिनशासने। अवध्यादिप्रमाणं प्रत्यक्षमात्मयोगजम्॥
(१७४) भेदश्चेयान् परं यच्च तदपि कथ्यते मया। शाब्दं जैनागमं चैव रचितं गणनायकैः॥
(१७५) | आर्ष वेदप्रमाणं जैनैर्नैव स्वीकृतम्। नापि बौद्धोदितं वाक्यं स्याद्वादपरिवर्जितम्॥
(१७६) | प्रमाणं हि तदेवास्ति निजान्यव्यवसायकम्। दीपो यथा निजं रूपं द्योतयत्यपरस्य वै॥
888888888888888888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ३०