________________
४४४४४४४४४
उपकारकरं
(१२३) द्रव्यमुपकरणं कथितं बुधैः । नेत्ररक्षाकरं यच्च पुटपलकादिनिबोधत ॥
(१२४)
लब्धिरक्षोपयोगश्च भावेन्द्रियमुदीरितम्। यया शक्त्या हि लभ्येत रूपादिविषयाः सखे ॥
(१२५) भावेन्द्रियः स विज्ञेयः रूपादीनां प्रकाशकः । लब्धौ सत्येव गृह्यन्ते शब्दादि
विषया: समे ॥
(१२६) उपयोगः स विज्ञेयः बहुधा कार्यार्थमुपयुज्येत वृथा नो बालचेष्टितम् ॥
चित्तयोगतः ।
* सम्प्रति मनसो लक्षणं प्रस्तयूते तावत् * (१२७)
अनिन्द्रियं मनः प्रोक्तं द्रव्य भावप्रभेदतः । इन्द्रियैश्च समायुक्तं द्रव्यमात्रप्रकाशकम् ॥
(१२८) आत्मना सह संयोगात् ज्ञानादिकविबोधकम् । भावेन्द्रियं तदा ज्ञेयं भावश्चात्मगुणो मतः ॥ 888888888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : २२