________________
४४४४४४४४४88888888888888888
(६४४)
घृतादयो गन्धवन्तः गन्धवान् पवनो लोके कथ्यते
सरसश्चानुभूयते । सकलैरपि ॥
(६४५)
स चापि पार्थिवः किं स्यादिति नैव निगद्यताम् । वायुर्गन्धवहः शास्त्रे कविभिश्च प्रयुज्यते ॥ (६४६)
तत्रापि पार्थिवो भागः सूक्ष्मा हि परमाणवः । गान्धिको विक्रीणीते वै, कस्तूरी घनसारकम् ॥
(६४७) निलिम्पति न वा स्वाङ्गे तथापि गन्धवानसौ । पवनो हरते गन्धं पृथिव्याः सततं हि सः ॥
(६४८) स गन्धो द्विविधो ज्ञेयः सुरभिश्च तथेतरः । स्वरूपकथनं चैतन्न पुनर्लक्षणं चैतन्न पुनर्लक्षणं हि तत् ॥ (६४९) सम्बन्धेन तु नित्येन भूमिर्गन्धवती मता । इदं हि लक्षणं तस्याः दोषत्रयविवर्जितम् ॥
४४४४४888888888888888888888 श्रीजैनसिद्धान्तकौमुदी : १०६