________________
४४४४४४४४४४ ३४४४४४४४
(६२६) स्पृशन्ती चास्पृशन्ती गती ते द्विविधे मते । चलन्ती च स्पृशन्ती पृथिवी दृश्यते जनैः ॥
(६२७) पृथिवीजलतेजांसि गतिमन्ति स्पृशन्ति च । स्पर्शवान् गतिमान् वायुः सर्वैरेवानुभूयते ॥
(६२८) गतिमन्तोऽतिसूक्ष्मा हि स्पर्शहीनाः सदाऽणवः । स्पर्शा नैवोपलभ्यन्ते व्याप्नुवन्ति जगत्त्रयम् ॥
(६२९) स्पर्शहीनस्ततश्चायं भाषितो
व्यावहारिकैः । यदि तत्र न वा स्पर्शो वादरे कुत आगतः ॥
(६३०) कारणानां गुणाः कार्ये सम्भवन्ति न चान्यतः। व्यक्तस्पर्शः क्वचिच्चास्तिकुत्राऽव्यक्तश्च मन्यताम् ॥
(६३१)
त्वगिन्द्रियग्रहो व्यक्तः परः सन्मान एव हि । स्पष्टाऽस्पष्टौ मया चेह स्पर्शो युक्त्या निरूपितौ ॥
8888888888888888४४४४४४४४ श्रीजैन सिद्धान्तकौमुदी : १०६