________________
8888888888888888888888888888888888888888889
88888888888888888888888888888888
(५८५) प्राकाराश्च त्रयो दिव्या रचनास्वर्गरत्नजा। विशाला हि सभा भव्या योजनद्वादशायता॥
(५८६) अशोकपादपस्याद्यः पादपीठसमन्वितम्। भामण्डलान्वितं छत्रं चतुर्दारविभाजितः॥
(५८७) स्वच्छन्दं विरचन्त्याशु समवसरणमद्भुतम्। लब्धिं विना न तत् कार्यं किं कर्तुं प्रभवन्ति ते॥
(५८८) चतुर्दशविदां शुद्धं वपुरोहकं मतम्। संदेहे सति तीर्थेशं गन्तुं तत्र प्रयुज्यते॥
(५८९) वायुसखस्य मेघस्य गतिः पर्वतसिन्धुषु। अव्याहतास्तथा तेषामन्तरायैर्न हन्यते॥
(५९०) सीमन्धरान्तिके गत्वा प्रणम्य जगदीश्वरम्।
निधूय निजसंदेहं क्षणेनायान्ति स्वं पदम्॥ Re888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ६६
888888888888888888888ങ്ങ്