________________
8888888888888888
(५७३) पुनः क्वापि महात्मानं छलयन् छलितः स्वयम्। भस्मयन् तं जिनाधीशं रक्षितोऽपि दयालुना॥
(५७४) रक्तस्रावं बहु सोढ्वा क्षामक्षोमेण स्वामिना। तथापि नरकाकारां वेदनां नैन सोढवान्॥
88888888888888888888888888888888888888888888
प्रान्ते यादृग् गतिर्जाता विजानन्ति मुनीश्वराः। नैदृशी प्रकृतिः कस्य शत्रोरपि विजायताम्॥
(५७६) आभ्यामपि च लेश्याभ्यां पर्याप्तं मुनिकुञ्जराः। परान् दाहयते नो वा चांकुश्या लोपया धृता॥
(५७७) मनोयोगो वचोयोगः काययोगस्तथैव हि। जगन्मध्ये त्रयोयोगा विश्रुताः सर्वहेतवः॥
(५७८) सच्चासच्चापि यत् कार्यं वितन्वन्ति च प्राणिनः। निष्पाद्यते च तत् कार्य योगैरेव न चान्यतः॥ B88888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ६७
8888888888888888888888