________________
४४४४४४४४४४४४४४४४४४४४
(५०१)
एवं स बोधितो जीवस्त्यजन् हिसां श्रयन् शिवम् । स्वल्पेन नैव तु कालेन सज्जनः स प्रजायते ॥
(५०२)
भावा औदयिकाद्याश्च सदृष्टान्तं मयोदिताः । कर्माणि यान्यभुक्ता भवन्ति जन्महेतवः ॥
(५०३)
अशुभैः कर्मभिर्जीवा व्रजन्ति नरकार्वानम् । नरकावनयः सप्त कथिताः श्रीजिनेश्वरैः ॥
(५०४)
दिव्यविज्ञानिनश्चासन् लोकालोकदिदृक्षवः । नरकप्रभादयो नाम्ना, कर्मणा दुःखराशयः ॥
(५०५)
मुक्ता वा येऽप्यमुक्ता जीवास्तिर्यक्शरीरिणः । पञ्चधा ते च विज्ञेया, एकद्वीन्द्रियवाणगाः ॥
(५०६) पृथिवी तेजः पयो वायुवृक्षाद्या वेणवस्तथा । एकेन्द्रिया इमे जीवास्त्वङ्मात्रेण स्पृशन्ति च ॥
888888888888888888888888४४४४४ श्रीजैनसिद्धान्तकौमुदी : ८५