________________
४४४४४४४४४४४४४ (४९५)
तथा निरञ्जनः शुद्धः सिद्धतुल्यः शिवोपमः । आत्मा कर्ममलैः सद्यश्चाष्टाभिर्मलिनायते ॥
४४४४
३४४
(४९६) किं किं न कुरुते कर्म निन्द्यं प्राणिवधादिकम् । हिंसायां रमते शश्वद् विष्ठायां शूकरो यथा ॥ (४९७)
।
महता पुण्यपण्येन प्रकृतेन सुकर्मणा । तेन चेज्जायते योग:, केनापि मुनिना सह ॥
(४९८) करुणासागरः साधुः प्राणिनामुपकारकः । स दर्शयाति सन्मार्गं जिनाधीशस्य चक्रिणः ॥
(४९९) त्यज हिंसामियां वत्स, श्रयमार्गं शिवङ्करम् । वर्त्मना चाऽमुना गच्छन् सर्वं भद्रं भविष्यति ॥
(५००) आयास्यति तथा प्रज्ञा कार्यं तादृक् करिष्यसि । आयास्यति स्वयं लक्ष्मीः सर्वशान्तिविधायिनी ॥
४४४४४४४४888888888 श्रीजैन सिद्धान्तकौमुदी : ८४