________________
४४४४४४४888888888888888888
(४०५) द्रव्यार्थिकनयः श्रेष्ठः, परः पर्यार्थिको मतः । नैगमः संग्रहश्चैव व्यवहार इति त्रिधा ॥
(४०६) निर्गच्छन्ति जना येन नैगमोऽसौ निगद्यते । निगमः सुगमो मार्गः सर्वकार्यविधायकः ॥
(४०७)
पदार्थेऽनेकधर्मा हि विद्यन्ते चाविरोधतः । कमप्यंशमुपादाय
वर्ततामविरोधतः ॥
(४०८)
संग्रहोऽपि वंरो न्याय: सर्वेषां संग्रहो यतः । यथो कोऽपि वणिक् मन्ये स्वभावात् दूरदर्शकः ॥
(४०९) सर्वसंग्रहकर्त्तव्यः कः काले फलदायकः । इति भावनया सर्वं चिनोति न विमुञ्चति ॥ (४१०) तथैव संग्रहो न्याय : ( नयः) विश्वमात्रोपकारकः । कालान्तरेऽपि लोकेभ्यः फलदः परिकीर्तितः ॥
8888888888888888888888888888 श्रीजैन सिद्धान्तकौमुदी : ६६