________________
888888 २४४४४४४४४४
(३९९)
सर्वांश हि विजानाति प्रमाणं नैव चापरः । नयोऽसौ कथितः प्राज्ञैर्नानावादावलम्बनात् ॥
४४४४४
(४००) प्रमाणे तु हठो नास्ति नैव वा परवञ्चना । प्रमाणं सततं मान्यं परमार्थगवेषणात् ॥
(४०१ )
संसारोऽयं विचित्रोऽस्ति निर्मितो जडचेतनैः । तालिका नैक हस्तेन करेण क्वापि जायते ॥
(४०२) नराधीशस्य राज्यं हि चतसृभिश्च नीतिभिः । सामादिभिः प्रचलति न तु केवलया तया ॥
?
(४०३)
तेन स्याद्वादिनो विज्ञा स्याद्वादं मन्वतेतराम् । निष्पक्षैस्तीर्थनाथैस्ते राजमार्गो विनिर्मितः ॥
(४०४) राजाध्वना व्रजन् लोको न क्वापिस्खलति स्फुटम् । स्याद्वादो प्रमाणं वै वस्तु सर्वांशग्राहकः ॥
४४४४४४४४४४४४४४४४४४४४४४४४४४
श्रीजैनसिद्धान्तकौमुदी : ६८