________________
RSS88888888888888888888888888888888888888888
18688888888888888888888888888888888885
(३८१) हेत्वाभासास्त्रिधा ज्ञेयाः कथिता मुनिपुङ्गवैः। असिद्धश्च विरुद्धश्च परोऽनेकान्तिकस्तथा॥
(३८२) अप्रतीतस्वरूपो हि त्वसिद्धस्त्रिविधो मतः। आश्रयाऽसिद्धिः प्रथमा, स्वरूपात्वपरा मता॥
___ (३८३) व्यापकत्वासिद्धिचरमः क्रमेण कथ्यते मया। शब्दो गुणश्चाक्षुषत्वात् स्वरूपासिद्धिरुच्यते॥
(३८४) | पक्षे यो नैव विद्येत, स्वरूपासिद्धिरेव सः। शब्दस्य ग्रहणं नित्यं श्रोत्राभ्यामेव जायते॥
(३८५) व्याप्यत्वेन त्वभीष्टोऽपि, यः पक्षे नैव विद्यते। हृदो द्रव्यं धूमवत्वात् हदे धूमो न विद्यते॥
(३८६) | ह्रदो जलाश्रयाधारो न तु धूमस्य कदाचन। । अनैकान्तस्त्वसौ ज्ञेयो य: साध्याऽभावसाधकः॥ B888888888888888888888888888888
श्रीजैनसिद्धान्तकौमुदी : ६५
8888888888888888888ണ്