________________
लाटीसंहितायां
उपवृंहणनामापि गुणः सद्दर्शनस्य यः। गणितो गणनामध्ये गुणानां नागुणाय च ॥ २९१॥ सुस्थितीकरणं नाम गुणः सदर्शनस्य यः।। धर्माच्च्युतस्य धर्मे तन्नाधर्मे धर्मिणः क्षतेः ॥ २९१ ॥ न प्रमाणीकृतं वृद्धैर्धर्मायाधर्मसेवनम् । भाविधर्माशया केचिन्मन्दाः सावधवादिनः ॥ २९३ ।। परंपरेति पक्षस्य नावकाशोऽत्र लेशतः ।। मूर्खादन्यत्र को मोहात्शीतार्थी वन्हिमाविशेत् ।। २९५।। नैतद्धर्मस्य प्राग्रूपं प्रागधर्मस्य सेवनम् । व्याप्तेरपक्षधर्मत्वाद्धेतोर्वा व्यभिचारतः ॥ २९५॥ प्रतिसूक्ष्मक्षणं यावद्धतोः कर्मोदयात्स्वतः । धर्मो वा स्यादधर्मो वाऽप्येष सर्वत्र निश्चयः ॥ २९५ ॥ तस्थितीकरणं द्वेधा साक्षात्स्वपरभेदतः । स्वात्मनः स्वात्मतत्वेर्थात् परतत्त्वे परस्य तत् ॥२९॥ तत्र मोहोदयोद्रेकाच्च्युतस्यात्मस्थितेश्चितः । भूयः संस्थापनं स्वस्य स्थितीकरणमात्मनि ॥२९७।। अयं भावः कचिदैवाद्दर्शनात्स पतत्यधः। 2 व्रजत्यूर्ध्वं पुनर्दैवात्सम्यगारुह्य दर्शनम् ॥ २९८ ॥ अथ क्वचिद्यथाहेतोदर्शनादपतन्नपि । भावशुद्धिमधोधोंशैर्गच्छत्यूद स रोहति ॥ ३०६ ।। क्वचिद्वहिः शुभाचारं स्वीकृतं चापि मुश्चति । न मुश्चति कदाचिद्वै मुक्त्वा वा पुनराचरेत् ॥ ३०१ ।। यद्वा वहिःक्रियाचारे यथावस्थं स्थितेपि च । कदाचिद्धीयमानोऽन्तर्भावैर्भूत्वा च वर्तते ॥ ३० ॥ नासम्भवमिदं यस्माच्चारित्रावरणोदयः । अस्ति तरतमस्वांशैः गच्छन्निम्नोन्नतामिह ॥ ३०२ ।।