SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सम्यग्दर्शनवर्णनम् । देवे गुरौ तथा धर्मे दृष्टिस्तत्त्वार्थदर्शिनी। ख्याताप्यमूढदृष्टिः स्यादन्यथा मूढदृष्टिता ॥ २७४।। सम्यक्त्वस्य गुणोप्येष नालं दोषाय लक्षितः । 0 सम्यग्दृष्टियतोवश्यं यथा स्यान्न तथेतरः ॥ २७॥ उपवृंहणमत्रास्ति गुणः सम्यग्दृगात्मनः। लक्षणादात्मशक्तीनामवश्यं वृंहणादिह ॥ २४॥ आत्मशक्तेरदौर्वल्यकरणं चोपवृंहणम् । अर्थादृग्ज्ञप्तिचारित्रभावास्खलनं हि तत् ॥ २८१॥ जानन्नप्येष निःशेषात्पौरुषं नात्मदर्शने । तथापि यत्नवानत्र पौरुषं प्रेरयन्निव ॥ २८॥ यद्वा शुद्धोपलब्धार्थमभ्यसेदपि तद्वहिः । ' सक्रियां काश्चिदप्यर्थात्तत्साध्योउपयोगिनीम् ॥ २८३ ॥ नायं शुद्धोपलब्धौ स्याल्लेशतोपि प्रमादवान् । निष्प्रमादतयात्मानमाददानः समादरात् ॥ २८॥ रसेन्द्रं सेवमानोपि कार्यपध्यं न वाचरेत् । आत्मनोनुल्लाघतामुज्झनोज्झनुल्लाघतामपि ॥ २८॥ .. यद्वा सिद्धं विनायासात्स्वतस्तत्रोपवृंहणम् । ऊर्ध्वमूर्ध्वं गुणश्रेणी निर्जरायाः सुसम्भवात् ॥ २८६॥ अवश्यं भाविनी तत्र निर्जरा कृत्स्नकर्मणाम् । . ) प्रतिसूक्ष्मक्षणं यावदसंख्येयगुणक्रमात् ।। २८६ ॥ न्यायादायातमेतद्वै यावतांशेन तक्षितौ ।। वृद्धिः शुध्दोपयोगस्य वृद्धिवृद्धिः पुनः पुनः ।। २८॥ यथा यथा विशुद्धिः स्यावृद्भिरन्तःप्रकाशिनी । . तथा तथा हृषीकानामुपेक्षा विषयेष्वपि ॥ २८८ ॥ .. ... ततो भूम्नि क्रियाकाण्डे नात्मशक्तिं स लोपयेत् । ... किन्तु संवर्द्धयन्नूनं यत्नादपि च दृष्टिमान् ॥ २८९। १ अत्रैकाक्षराधिक्यम् । २ बहुक्रियासमूहे ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy