________________
Avvvvvwww.
७२
लाटीसंहितायांनूनं सद्दर्शनज्ञानचारित्रैर्मोक्षपद्धतिः । समस्तैरेव न व्यस्तैस्तक्तिं चारित्रमात्रया ॥ २६६॥ सत्यं सदर्शनं ज्ञानं चारित्रान्तर्गतं मिथः ।। त्रयाणामविनाभावाद् रत्नत्रयमखण्डितम् ॥ २६२ ।। किञ्च सदर्शनं हेतुः संविञ्चारित्रयोर्द्वयोः।। सम्यग्विशेषणस्योच्चैर्यद्वा प्रत्यग्रजन्मनः ॥ २६ ॥ अर्थोयं सति सम्यक्त्वे ज्ञानचारित्रमत्र यत् । । भूतपूर्वं भवेत्सम्यक् सूते वा भूतपूर्वकम् ॥ २६८ ॥ शुद्धोपलब्धिशक्तिर्यालब्धिज्ञानातिशायिनी । सा भवेत्सति सम्यक्त्वे शुद्धोभावोथवापि च ॥ २६ ॥ यत्पुनद्रव्यचारित्रं श्रुतज्ञानं विनापि दृक् । न तद्ज्ञानं न चारित्रमस्ति चेत्कर्मबन्धकृत् ।। २७१ ॥ तेषामन्यतमोद्देशो नालं दोषाय जातुचित् । मोक्षमार्गकसाध्यस्य साधकानां स्मृतेरपि ॥ २७ ॥ बन्धो मोक्षश्च ज्ञातव्यः समासात्प्रश्नकोविदः।। रागांशैर्बन्ध एव स्यान्नारागांशैः कदाचन ।। २७२ ।।
उक्तं च। येनांशेन सुदृष्टिस्तेनांशेनास्य बन्धनं नास्ति ।। येनांशेन तु रागस्तेनांशेनास्य बन्धनं भवति ।। २७४।। येनांशेन तु ज्ञानं तेनांशेनास्य बन्धनं नास्ति । येनांशेन तु रागस्तेनांशेनास्य बन्धनं भवति ।। २७५ ।। येनांशेन चरित्रं तेनांशेनास्य बन्धनं नास्ति । । येनांशेन तु रागस्तेनांशेनास्य बन्धनं भवति ॥ २७६ ॥ उक्तो धर्मस्वरूपोपि प्रसङ्गात्सङ्गतोंशतः। कविलब्धावकाशस्तं विस्तराद्वा करिष्यति ।। २७१ ।।
१ पूर्व भूतं उत्पन्नं भूतपूर्व सम्यक्त्वम् । २. स्मरणात् । 3 संक्षेपात् ।