SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सम्यग्दर्शनवर्णनम् । तस्याभावो निवृत्तिः स्याद्वतं चार्थादिति स्मृतिः । अंशात्साप्यंशतस्तत्सा सर्वतः सर्वतोपि तत् ॥ २५ ॥ सर्वतः सिद्धमेवैतद् व्रतं बाह्यं दयाङ्गिषु । व्रतमन्तः कषायाणां त्यागः सैवात्मनि क्रिया ॥ २५ ॥ लोकासंख्यातमात्रास्ते यावदागादयः स्फुटम् । 'हिंसायास्तत्परित्यागो व्रतं धर्मोऽथवा किल ॥ २५॥ आत्मेतराङ्गिणामङ्गरक्षणं यन्मतं स्मृतौ । तत्परं स्वात्मरक्षायाः कृतेनातः परत्रतत् ॥ २५५॥ सत्सु रागादिभावेषु बन्धः स्यात्कर्मणां बलात् । तत्पाकादात्मनो दुःखं तत्सिद्धः स्वात्मनो बधः ।। २५ ततः शुद्धोपयोगो यो मोहकर्मोदयादृते ।। चारित्रापरनामैतव्रतं निश्चयतः परम् ॥ २५८ रूढेः शुभोपयोगोऽपि ख्यातश्चारित्रसंज्ञया। खार्थक्रियामकुर्वाणः सार्थनामा न निश्चयात् ॥ २६ ॥ किन्तु बन्धस्य हेतुः स्यादर्थात्तत्प्रत्यनीकवत् । नासौ वरं वरं यः स नापकारोपकारकृत् ॥ २६१ ॥ ...... विरुद्धकार्यकारित्वं नास्यासिद्धं विचारसात् । बन्धस्यैकान्ततो हेतोः शुद्धादन्यत्र संभवात् ।। २६३ ।। नोह्यं प्रज्ञापराधत्वानिर्जराहेतुरंशतः ।। अस्ति नाबन्धहेतुर्वा शुभो नाप्यशुभावहान॥ २६२ ॥ कर्मादानक्रियारोधः स्वरूपाचरणं च यत् । धर्मः शुद्धोपयोगः स्यात्सैष चारित्रसंज्ञिकः ॥ २६४॥ उक्तं च। चारित्तं खलु धम्मो धम्मो जो सो समोत्तिणिहिहो । मोहक्खोहविहीणो परिणामो अप्पणो हु समो ॥ २६५ ॥ १ न विचारणीयम् ।.
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy