________________
लाटीसंहितायां
रूढितोधिवपुर्वाचां क्रिया धर्मः शुभावहा। तत्रानुकूलरूपा का मनोवृत्तिः सहानया ॥ २४१ ॥ सा द्विधा स च सागारानागाराणां विशेषतः। . यतः क्रियाविशेषत्वान्नूनं धर्मो विशेषतः ॥ २४ ॥ तत्र हिंसानृतस्तेयाब्रह्मकृत्स्नपरिग्रहात् । देशतो विरतिः प्रोक्तं गृहस्थानामणुव्रतम् ॥ २४३ ॥ यतेर्मूलगुणाश्चाष्टाविंशतिर्मूलवत्तरोः । नात्राप्यन्यतरेणोना नातिरिक्ता कदाचन ॥ २४॥ सर्वैरेव समस्तैश्च सिद्धं यावन्मुनिव्रतम् । न व्यस्तैर्व्यस्तमात्रं तु यावदंशत्रयादपि ॥ २४५॥
उक्तं च। वंद समिदिदियरोधो लोचो आवसयमचेलमन्हाणं । खिदिसयणमदंतवणं ठिदिभोयणमेयभत्तं च ॥ २४६ ॥ ऐते मूलगुणाः प्रोक्ताः यतीनां जैनशासने । लक्षाणां चतुरशीतिर्गुणाश्चोत्तरसंज्ञकाः ॥ २४६ ।। ततः सागारधर्मोवाऽनगारो वा यथोदितः । प्राणिसंरक्षणं मूलमुभयत्राविशेषतः ॥ २४॥ उक्तमस्ति क्रियारूपं व्यासागतकदम्बकम् । सर्वसावद्ययोगस्य तदेकस्य निवृत्तये ॥ २४०।। अर्थाज्जैनोपदेशोयमस्त्यादेशः स एव च । सर्वसावद्ययोगस्य निवृत्तिव्रतमुच्यते ॥ १९॥ सर्वशब्देन तत्रान्तर्बहिर्वर्तिपदार्थतः । प्राणोच्छेदो हि सावा सैव हिंसा प्रकीर्तिता ॥ २५१ ।। योगस्तत्रोपयोगो वा बुद्धिपूर्वः स उच्यते । सूक्ष्मश्चाबुद्धिपूर्वो यः स स्मृतो योग इत्यपि ॥ २५१ ।। . १ व्रतानि समितयः इद्रियनिरोधाः लोचः आवश्यकानि अचेलं अस्नानम् । क्षितिशयनं स्थितभोजनं एकभुक्तं च । २ विस्तारात् ।