________________
सम्यग्दर्शनवर्णनम् ।
अत्राभिप्रेतमेवैतत् स्वस्थितीकरणं स्वतः। न्यायात्कुतश्चिदत्रापि हेतुस्तत्रानवस्थितिः ॥ ३०॥ सुस्थितीकरणं नाम परेषां सदनुग्रहात् । भ्रष्टानां स्वपदात्तत्र स्थापनं तत्पदे पुनः ॥ ३०॥ धर्मादेशोपदेशाभ्यां कर्तव्योऽनुग्रहः परे। नात्मवृत्तं विहायाशु तत्परः पररक्षणे ॥ ३०६॥
उक्तं च । *आदहिदं कादव्वं जइ सकइ पर हिदं च कादव्वं । आदहिदपरहिदादो आदहिदं सुठुकादव्वं ।। ३०१॥ उक्तं दिग्मात्रतोप्यत्र सुस्थितीकरणं गुणः। . निर्जरायां गुणश्रेणौ प्रसिद्धः सुदृगात्मनः ॥ ३०५॥ • वात्सल्यं नाम दासत्वं सिद्धार्ह द्विम्बवेश्मसु। " संघे चतुर्विधे शास्त्रे स्वामिकार्ये सुभृत्यवत् ॥ ३०८।। अर्थादन्यैतमस्योचैरुद्दिष्टेषु सुदृष्टिमान् । सत्सु घोरोपसर्गेषु तत्परः स्यात्तदत्यये ॥ ३९९ ॥ यद्वा न ह्यात्मसामर्थ्य यावन्मंत्रासिकोशकम् । तावद्दृष्टुं च श्रोतुंचतद्वाधां सहते न सः ।। ३११ ।। तद्विधाऽथ च वात्सल्यं भेदात्स्वपरगोचरात् ।' प्रधानं स्वात्मसम्बन्धिगुणो यावत्परात्मनि ।। ३११॥ परीषहोपसर्गायैः पीडितस्यापि कस्यचित् । न शैथिल्यं शुभाचारे ज्ञाने ध्याने तदादिमम् ॥ ३१२ ॥ इतरत्प्रागिहाख्यातं गुणो दृष्टिमतः स्फुटम् । शुद्धध्यानवलादेव सतो बाधापकर्षणम् ॥ ३१॥ * आत्महितं कर्तव्यं यथा शक्नोति पर हितं च कर्तव्यम् ।
आत्महितपरहिताभ्यामात्माहितं सुष्ठुकर्तव्यम् ॥ १ आत्मोपदेशात् । २ एकस्याहद्विम्बादेः ।