SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां प्रभावनाङ्गसंज्ञोस्ति गुणः सहर्शनस्य वै । .. 'उत्कर्षकरणं नाम लक्षणादपि लक्षितम् ॥ ३१५ ॥ अर्थात्तद्धर्मणः पक्षे नावद्यस्य मनागपि । धर्मपक्षक्षतेर्यस्मादधर्मोत्कर्षरोषणात् ॥ ३१६ ॥ पूर्ववत्सोपि द्वैविध्यः स्वान्यात्मभेदतः पुनः । तत्राद्यो वरमादेयः स्यादादेयोऽपरोप्यतः ॥ ३१ ॥ उत्कर्षो यद्वलाधिक्यादधिकीकरणं वृषे। असत्सु प्रत्यनीकेषु नालं दोषायतत्क्वचित् ॥ ३१॥ मोहारातिक्षतेः शुद्धः शुद्धाच्छुद्धतरस्ततः । जीवः शुद्धतमः कश्चिदस्तीत्यात्मप्रभावना ॥ ३१८ ॥ नायं स्यात्पौरुषायत्तः किन्तु नूनं स्वभावतः। ऊर्ध्वमूर्ध्वं गुणश्रेणौ यतः शुद्धिर्यथोत्तरा ॥ ३१९॥ बाह्यप्रभावनाङ्गोस्त विद्यामन्त्रासिभिर्वलैः । तपोदानादिभिर्जुनधर्मोत्कर्षो विधीयताम् ।। ३२१ ॥ परेषामपकर्षाय मिथ्यात्वोत्कर्षशालिनाम् । चमत्कारकरं किश्चित्तद्विधेयं महात्मभिः ॥ ३० ॥ उक्तः प्रभावनाङ्गोपि गुणः सद्दर्शनस्य वै ।। येन सम्पूर्णतां याति दर्शनस्य गुणाष्टकम् ॥ ३२३ ॥ . इति श्रीस्याद्वादानवद्यगद्यपद्यविद्याविशारद विद्वन्मणिराजमल्ल विरचितायां श्रावकाचारापरनाम लाटीसंहितायां साधुश्री दूदात्मज फामन मनःसरोजारविन्दविकाशनैकमार्तण्डमण्डलायमानायामष्टाङ्गसम्यग्दर्शन वर्णनो नाम चतुर्थः सर्गः। १ जैनशत्रुषु ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy