SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ प्रथमाणुव्रतवर्णनम् । ७७. अथ पञ्चमः सर्गः। अष्टाङ्गदर्शनं सम्यग्भूयाद्वः श्रेयसे दृढम् । साधु दूदात्मजोदामधर्मारामैकफामन ॥ १ ॥ . . इत्याशीर्वादः । शुद्धदर्शनिकोद्दान्तो भावैः सातिशयः क्षमी। ऋजुर्जितेन्द्रियो धीरो व्रतमादातुमर्हति ॥ १॥ शरीरभवभोगेभ्यो विरक्तो दोषदर्शनात् । अक्षातीतसुखैषी यः स स्यान्नूनं व्रतार्हतः ॥ २ ॥ न स्यादणुव्रता) यो मिथ्यान्धतमसा ततः । लोलुपो लोलचक्षुश्च वाचालो निर्दयः कुधीः ॥ ३ ॥ मूढोमूढो सच (2)प्रायो जाग्रन्मूर्छापरिग्रहः । दुर्विनीतो दुराराध्यो निर्विवेकी समत्सरः ॥ ४॥ . निन्दकश्च विनास्वार्थं देवशास्त्रेष्वसूयंकः ।। उद्धतोऽवर्णवादी च वावदूकोप्यकारणे ॥ ५॥ आततायी क्षणादन्यो भोगाकांक्षी व्रतच्छलात् । .. सुखाशयो धनाशश्च बहुमानी च कोपतः ॥ ६ ॥ मायावी लोभपात्रश्च हास्यायुद्रेकलक्षितः। क्षणादुष्णः क्षणाच्छीतः क्षणाद्भीरुः क्षणाद्भटः ॥ ७ ॥ इत्याद्यनेकदोषाणामास्पद स्वपदस्थितः । इच्छन्नपि व्रतादींश्च नाधिकारी स निश्चयात् ॥ ८॥ न निषिद्धोऽथवा सोऽपि निर्दम्भश्चेद्वतोन्मुखः ।। मृदुमतिभॊगाकांक्षी स्याञ्चिकित्स्यो न वञ्चकः ॥ ९ ॥ अर्थात्कालादिसंलब्धो लब्धसदर्शनान्वितः । " देशतः सर्वतश्चापि व्रती तत्त्वविदिष्यते ॥१०॥ १ व्यासः । २ समत्सरः ।
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy