SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां व्रतं • विनाप्यनेहसो लब्धेः कुर्वन्नपि व्रतक्रियाम् । हठादात्मवलाद्वापि व्रतंमन्योऽस्तु का क्षतिः ॥ ११॥ किचात्मनो यथाशक्ति तथेच्छन्वा प्रतिक्रियाम् । कस्कोपि प्राणिरक्षार्थं कुर्बन्नायैर्न वारितः ॥ १२ ॥ द्रव्यमात्रक्रियारूढो भावरिक्तो यदृच्छतः । · स्वल्पभोगं फलं तस्यास्तन्माहात्म्यादिहाश्नुते ॥ १३ ॥ निर्देशोयं यथोक्तायाः क्रियायाः प्रतिपालनात् । छद्मनाऽथ प्रमादाद्वा नायं तस्याश्च साधकाः ॥ १४ ॥ अभव्यो भव्यमात्रो वा मिथ्यादृष्टिरपि क्वचित् । देशतः सर्वतो वापि गृह्णाति च व्रतक्रियाम् ॥ १५ ॥ हेतुश्चारित्रमोहस्य कर्मणो रसलाघवात् । शुकुलेश्यावलात्कश्चिदार्हतं व्रतमाचरेत् ॥ १६ ॥ यथास्वं व्रतमादाय यथोक्तं प्रतिपालयेत् । सानुरागः क्रियामात्रमतिचारविवर्जितम् ॥ १७ ॥ एकादशाङ्गपाठोपि तस्य स्याद् द्रव्यरूपतः । आत्मानुभूतिशून्यत्वाद्भावतः संविदुज्झितः ।। १८ ।। न वाच्यं पाठमात्रत्वमस्ति तस्येह नार्थतः । यतस्तस्योपदेशाद्वै ज्ञानं विंदन्ति केचन ॥ १९ ॥ ततः पाठोस्ति तेषूचैः पाठस्याप्यस्ति ज्ञातृता । ज्ञातृतायां च श्रद्धानं प्रतीतीरोचनं क्रिया ॥ २० ॥ अर्थात्तत्र यथार्थत्वमित्याशङ्कथं न कोविदैः । जीवाजीवास्तिकायानां यथार्थत्वं न सम्भवात् ॥ २१ ॥ किन्तु कश्चिद्विशेषस्ति प्रत्यक्षज्ञानगोचरः । येन तज्ज्ञानमात्रेपि तस्याज्ञानं हि वस्तुतः ॥ २२ ॥ तत्रोल्लेखोस्ति विख्यातः परिक्षादिक्षमोपि यः । न स्याच्छुद्धानुभूतिः सा तत्र मिध्यादृशि स्फुटम् ॥ २३ ॥ १ कः कोऽपि । ७८
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy