________________
प्रथमाणुव्रतवर्णनम् ।
अस्तु सूत्रानुसारेण स्वसंविदविरोधिना । परिक्षायाः सहत्वेन हेतोर्वलवतोपि च ।। २४॥ दृश्यते पाठमात्रत्वाद् ज्ञानस्यानुभवस्य च । विशेषोध्यक्षको यस्माद्द्द्दृष्टान्तादपि संमतः ॥ २५ ॥ यथा चिकित्सकः कश्चित्पराङ्गगतवेदनाम् । परोपदेशवाक्याद्वा जानन्नानुभवत्यपि ॥ २६॥ तथा सूत्रार्थवाक्यार्थात् जानन्नाप्यात्मलक्षणः । नाखादयतिमिध्यात्वकर्मणोरसपाकतः ॥ २७ ॥ सिद्धमेतावताप्येतन्मिथ्यादृष्टेः क्रियावतः । एकादशाङ्गपाठेपि ज्ञानेप्यज्ञानमेवतत् ॥ २८॥ नाशङ्कथं क्रियामात्रे नानुरागोऽस्य लेशतः । रागस्य हेतुसिद्धत्वाद्विशुद्धेस्तत्र सम्भवात् ॥ २९॥ सूत्राद्विशुद्धस्थानानि सन्ति मिध्यादृशि क्वचित् । हेतोश्चारित्रमोहस्य रसपाकस्य लाघवात् ॥ ३० ॥ ततो विशुद्धिसं सिद्धेरन्यन्थानुपपत्तितः । मिध्यादृष्टेरवश्यं स्यात्सद्व्रतेष्वनुरागिता ॥ ३१ ॥ ततः क्रियानुरागेण क्रियामात्राच्छुभास्रवात् । सद्भूतस्य प्रभावात्स्यादस्यमैवेयकं सुखम् ॥ ३२ ॥ किन्तु कश्चिद्विशेषस्ति जिनदृष्टो यथागमात् । क्रिस नपि येनायमचारित्री प्रमाणितः ॥ ३३ ॥ सम्यग्दृष्टेस्तु तत्सर्वं यथाणुव्रतपञ्चकम् । महाव्रतं तपश्चापि श्रेयसे चामृताय च ॥ ३४ ॥ अस्ति वा द्वादशाङ्गादिपाठस्तज्ज्ञानमित्यपि । सम्यग्ज्ञानं तदेवैकं मोक्षाय च दृगात्मनः ॥ ३५ ॥ एवं सम्यक् परिज्ञाय श्रद्धाय श्रावकोत्तमैः । सम्पदर्थमिहामुत्र कर्तव्यो व्रतसंग्रहः ॥ ३६ ॥
७९