SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ लाटीसंहितायां कषायाणामनुद्रेकश्चारित्रं तावदेव हि। नानुद्रेकः कषायाणां चारित्राच्च्युतिरात्मनः ॥ २१४ ॥ ततस्तेषामनुद्रेकः स्यादुद्रेकोऽथवा स्वतः। । नात्मदृष्टेः क्षतिनं दृग्मोहस्योदयाहते ॥ २१६॥ अथ सूरिरुपाध्यायः द्वावेतौ हेतुतः समौ । । साधुरिवात्मज्ञौ मुझे शुद्धौ शुद्धोपयोगिनौ ।। २१७ ।। - 'नापि कश्चिहिशेषोस्ति द्वयोस्तरतमो मिथः। - नैताभ्यामन्तरुत्कर्षः साँधोरप्यतिशायनात् ।। २१४।। लेशतोस्ति विशेषश्चेन्मिथस्तेषां वहिः कृतः। ॥ का क्षतिर्मूलहेतोः स्यादन्तःशुद्धिसमन्वितः ॥ २१८॥ - नात्यत्र नियतः कश्चिद्युक्तिस्वानुभवागमात् । मन्दादिरुदयस्तेषां सूर्युपाध्यायसाधुषु ॥ २७॥ प्रत्येकं बहवः सन्ति सूर्युपाध्यायसाधवः । जघन्यमध्यमोत्कृष्टभूवैश्चैकैकशः पृथक् ॥ २२ ॥ - कश्चित्सूरिः कदाचिद्वै विशुद्धिं परमां गतः । मध्यमां वा जघन्यां वा स्वोचितां पुनराश्रयेत् ॥ २२ ॥ हेतुस्तत्रोदिता नानाभावांशैः स्पर्द्धकाः क्षणम् । धर्मादेशोपदेशादिहेतुर्नात्र बहिः क्वचित् ॥ २२३ ।। परिपाट्यानया योज्याः पाठकाः साधवश्व ये। न विशेषो यतस्तेषां नियतः शेषो विशेषभाक् ॥ २२४॥ ननु धर्मोपदेशादि कर्म तत्कारणं बहिः । हेतोरभ्यन्तरस्यापि बाह्यं हेतुर्बहिः कचित् ।। २२ ।। नैवमर्थाद्यतः सर्वं वस्त्वकिश्चित्करं बहिः । तत्पदं फलवन्मोहादिच्छतोऽप्यान्तरं परम् ।। २२६॥ किं पुनर्गणिनस्तस्य सर्वतोनिच्छतो बहिः । धर्मादेशोपदेशादिस्वपदं तत्फलं च यत् ॥ २२६ ॥
SR No.022354
Book TitleLati Samhita
Original Sutra AuthorN/A
AuthorManikchandra Digambar Jain Granthmala Samiti
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1928
Total Pages162
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy