________________
६६
लाटीसंहितायां
नोचे वाचंयमी किश्चिद्धस्तपादादिसंज्ञया । न किञ्चिद्दर्शयेत्स्वस्थो मनसापि न चिन्तयेत् ॥ १९ ॥ आस्ते स शुद्धमात्मानमास्तिनुवानश्च परम् । : । स्तिमितान्तर्बहिर्जल्पो निस्तरङ्गाब्धिवन्मुनिः ॥ १९१॥ नादेशं नोपदेशं वा नादिशेत्स मनागपि । स्वर्गापवर्गमार्गस्य तद्विपक्षस्य किं पुनः ॥ १९ ॥ वैराग्यस्य परां काष्ठामधिरूढोऽधिकप्रभः । दिगम्बरो यथाजातरूपधारी दयापरः ॥ १९॥ निर्ग्रन्थोन्तर्बहिर्मोहग्रन्थेरुद्न्थको यमी। कर्मनिर्जरकः श्रेण्या तपस्वी स तपःशुचिः ॥ १९ ॥ परिषहोपसर्गाद्यैरजय्यो जितमन्मथः ।। एषणाशुद्धिसंशुद्धः प्रत्याख्यानपरायणः ॥ १९५॥ इत्याद्यनेकधाऽनेकैः साधुः साधुगुणैः श्रितः । नमस्यः श्रेयसेऽवश्यं नेतरो विदुषां महान् ॥ १९ ॥ एवं मुनित्रयी ख्याता महती महतामपि। तद्विशुद्धिविशेषोस्ति क्रमात्तरतमात्मकः ॥ १९॥ तत्राचार्यः प्रसिद्धोस्ति दीक्षादेशाद्ग्रणाप्रणीः । न्यायाद्वा देशतोध्यक्षात् सिद्धः स्वात्मन्यतत्परः ।। १९८॥'अर्थान्नातत्परोप्येष दृग्मोहानुदयात्सतः । अस्ति तेनाविनाभूतशुद्धात्मानुभवः स्फुटम् ॥१६॥ अप्यस्ति देशतस्तत्र चारित्रावरणक्षतिः । वाक्यार्थात् केवलं न स्यात्क्षतिर्वापि तदक्षतिः ॥ २० ॥ तथापि न बहिर्वस्तु स्यात्तद्धेतुरहेतुतः । अस्त्युपादानहेतोश्च तत्क्षतिर्वा तदक्षतिः ॥ २० ॥
१ नोच्यात् " इत्यापिपाठः । २ साधुः “ वाचंयमे " इति स पुस्तके पाठः । ३ चलनक्रियारहितः । ४ भक्त्वा ।